अर्धनारीश्वर स्तोत्र

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय।

धम्मिल्लिकायै च जटाधराय नमः शिवायै च नमः शिवाय।

कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय।

कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय।

झणत्कणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुरायै।

हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय।

विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय।

समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय।

मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय।

दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय।

अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय।

निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय।

प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय।

जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय।

प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय।

शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय।

एतत् पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी।

प्राप्नोति सौभाग्यमनन्तकालं भूयात् सदा तस्य समस्तसिद्धिः।

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2026 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize

We use cookies