चाम्पेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय।
धम्मल्लिकायै च जटाधराय
नमः शिवायै च नमः शिवाय।
कस्तूरिकाकुङ्कुमचर्चितायै
चितारजःपुञ्जविचर्चिताय।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय।
झणत्कणत्कङ्कणनूपुरायै
पादाब्जराजत्फणिनूपुरायै।
हेमाङ्गदायै भुजगाङ्गदाय
नमः शिवायै च नमः शिवाय।
विशालनीलोत्पललोचनायै
विकासिपङ्केरुहलोचनाय।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय।
मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धराय।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय।
अम्भोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय।
प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय।
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय।
प्रदीप्तरत्नोज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय।
एतत् पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी।
प्राप्नोति सौभाग्यमनन्तकालं
भूयात् सदा तस्य समस्तसिद्धिः।
अरुणाचलेश्वर अष्टोत्तर शतनामावलि
ॐ अखण्डज्योतिस्वरूपाय नमः ॥ १ ॐ अरुणाचलेश्वराय नमः । ॐ आ....
Click here to know more..शंकर भुजंग स्तुति
महान्तं वरेण्यं जगन्मङ्गलं तं सुधारम्यगात्रं हरं नीलकण....
Click here to know more..दिन भर के लिये आपको यही एक प्रार्थना चाहिये होगा