पार्वतीसहितं स्कन्दनन्दिविघ्नेशसंयुतम्।
चिन्तयामि हृदाकाशे भजतां पुत्रदं शिवम्।
भगवन् रुद्र सर्वेश सर्वभूतदयापर।
अनाथनाथ सर्वज्ञ पुत्रं देहि मम प्रभो।
रुद्र शम्भो विरूपाक्ष नीलकण्ठ महेश्वर।
पूर्वजन्मकृतं पापं व्यपोह्य तनयं दिश।
चन्द्रशेखर सर्वज्ञ कालकूटविषाशन।
मम सञ्चितपापस्य लयं कृत्वा सुतं दिश।
त्रिपुरारे क्रतुध्वंसिन् कामाराते वृषध्वज।
कृपया मयि देवेश सुपुत्रान् देहि मे बहून्।
अन्धकारे वृषारूढ चन्द्रवह्न्यर्कलोचन।
भक्ते मयि कृपां कृत्वा सन्तानं देहि मे प्रभो।
कैलासशिखरावास पार्वतीस्कन्दसंयुत।
मम पुत्रं च सत्कीर्तिमैश्वर्यं चाऽऽशु देहि भोः।
सप्त नदी पुण्यपद्म स्तोत्र
सुरेश्वरार्यपूजितां महानदीषु चोत्तमां द्युलोकतः समागतां गिरीशमस्तकस्थिताम्| वधोद्यतादिकल्मषप्रणाशिनीं हितप्रदां विकाशिकापदे स्थितां विकासदामहं भजे| प्रदेशमुत्तरं च पूरुवंशदेशसंस्पृशां त्रिवेणिसङ्गमिश्रितां सहस्ररश्मिनन्दिनीम्| विचेतनप्रपापनाशकारिणीं यमानु
Click here to know more..वरद विष्णु स्तोत्र
जगत्सृष्टिहेतो द्विषद्धूमकेतो रमाकान्त सद्भक्तवन्द्य प्रशान्त| त्वमेकोऽतिशान्तो जगत्पासि नूनं प्रभो देव मह्यं वरं देहि विष्णो| भुवः पालकः सिद्धिदस्त्वं मुनीनां विभो कारणानां हि बीजस्त्वमेकः| त्वमस्युत्तमैः पूजितो लोकनाथ प्रभो देव मह्यं वरं देहि विष्णो|
Click here to know more..कठोपनिषद - भाग २