महादेव उवाच -
प्रीयतां भैरवो देवो नमो वै भैरवाय च।
देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम्।
म्रियन्ते साधका येन विना श्मशानभूमिषु।
रणेषु चाति घोरेषु महामृत्युभयेषु च।
शृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवह्निषु।
देव्युवाच -
कथयामि शृणु प्राज्ञ बटुककवचं शुभम्।
गोपनीयं प्रयत्नेन मातृकाजारजो यथा।
ॐ अस्य श्रीवटुकभैरवकवचस्य।
आनन्दभैरव-ऋषिस्त्रिष्टुप्छन्दः।
श्रीवटुकभैरवो देवता। बं बीजं ह्रीं शक्तिः।
ॐ वटुकायेति कीलकम्। ममाभीष्टसिध्यर्थे जपे विनियोगः।
ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।
पातु मां बटुको देवो भैरवः सर्वकर्मसु।
पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा।
आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः।
नैरृत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।
वायव्यां मां कपाली च नित्यं पायात्सुरेश्वरः।
भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा।
संहारभैरवः पायादीशान्यां च महेश्वरः।
ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः।
सद्योजातस्तु मां पायात्सर्वतो देवसेवितः।
वामदेवो वनान्ते च वने घोरस्तथाऽवतु।
जले तत्पुरुषः पातु स्थले ईशान एव च।
डाकिनीपुत्रकः पातु पुत्रान् में सर्वतः प्रभुः।
हाकिनी पुत्रकः पातु दारांस्तुलाकिनीसुतः।
पातु शाकिनिकापुत्रः सैन्यं वै कालभैरवः।
मालिनीपुत्रकः पातु पशूनश्वान् गजांस्तथा।
महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा।
वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा।
एतत्कवचमीशान तव स्नेहात्प्रकाशितम्।
नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।
यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।
न देयं परिशिष्येभ्यो कृपणेभ्यश्च शङ्कर।
यो ददाति निषिद्धेभ्यः सर्वभ्रष्टो भवेत्किल।
अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।
विचरन्यत्र कुत्रापि न विघ्नैः परिभूयते।
मन्त्रेण रक्षते योगी कवचं रक्षकं यतः।
तस्मात्सर्वप्रयत्नेन दुर्लभं पापचेतसाम्।
भूर्जे रम्भात्वचि वापि लिखित्वा विधिवत्प्रभो।
कुङ्कुमेनाष्टगन्धेन गोरोचनैश्च केसरैः।
धारयेत्पाठायेद्वापि सम्पठेद्वापि नित्यशः।
सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।
सततं पठ्यते यत्र तत्र भैरवसंस्थितिः।
न शक्नोमि प्रभावं वै कवचस्यास्य वर्णितुम्।
नमो भैरवदेवाय सर्वभूताय वै नमः।
नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः।