नटराज प्रसाद स्तोत्र

प्रत्यूहध्वान्तचण्डांशुः प्रत्यूहारण्यपावकः।
प्रत्यूहसिंहशरभः पातु नः पार्वतीसुतः।
चित्सभानायकं वन्दे चिन्ताधिकफलप्रदम्।
अपर्णास्वर्णकुम्भाभकुचाश्लिष्टकलेवरम्।
विराड्ढृदयपद्मस्थत्रिकोणे शिवया सह।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
श्रुतिस्तम्भान्तरेचक्रयुग्मे गिरिजया‌ सह ।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
शिवकामीकुचाम्भोजसव्यभागविराजितः।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
करस्थडमरुध्वानपरिष्कृतरवागमः।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
नारदब्रह्मगोविन्दवीणातालमृदङ्गकैः।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
जैमिनिव्याघ्रपाच्छेषस्तु तिस्मेरमुखाम्बुजः।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
तिल्वविप्रैस्त्रयीमार्गपूजिताङ्घ्रिसरोरुहः।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
मन्त्रनूपुरपत्पद्मझणज्झणितदिन्द्मुखः।
स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।
सम्पत्प्रदमिदं स्तोत्रं प्रातरुत्थाय यः पठेत्।
अचलां श्रियमाप्नोति नटराजप्रसादतः।

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |