अमरनाथ शिव स्तोत्र

भागीरथीसलिलसान्द्रजटाकलापं
शीतांशुकान्तिरमणीयविशालभालम्।
कर्पूरदुग्धहिमहंसनिभं स्वतोजं
नित्यं भजाम्यऽमरनाथमहं दयालुम्।
गौरीपतिं पशुपतिं वरदं त्रिनेत्रं
भूताधिपं सकललोकपतिं सुरेशम्।
शार्दूलचर्मचितिभस्मविभूषिताङ्गं
नित्यं भजाम्यऽमरनाथमहं दयालुम्।
गन्धर्वयक्षरसुरकिन्नरसिद्धसङ्घैः
संस्तूयमानमनिशं श्रुतिपूतमन्त्रैः।
सर्वत्रसर्वहृदयैकनिवासिनं तं
नित्यं भजाम्यऽमरनाथमहं दयालुम्।
व्योमानिलानलजलावनिसोमसूर्य-
होत्रीभिरष्टतनुभिर्जगदेकनाथः।
यस्तिष्ठतीह जनमङ्गलधारणाय
तं प्रार्थयाम्यऽमरनाथमहं दयालुम्।
शैलेन्द्रतुङ्गशिखरे गिरिजासमेतं
प्रालेयदुर्गमगुहासु सदा वसन्तम्।
श्रीमद्गजाननविराजित दक्षिणाङ्कं
नित्यं भजाम्यऽमरनाथमहं दयालुम्।
वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः
शक्यं समाकलयितुं न यदीयरूपम्।
तं भक्तिभावसुलभं शरणं नतानां
नित्ंय भजाम्यऽमरनाथमहं दयालुम्।
आद्यन्तहीनमखिलाधिपतिं गिरीशं
भक्तप्रियं हितकरं प्रभुमद्वयैकम्।
सृष्टिस्थितिप्रलयलीलमनन्तशक्तिं
नित्यं भजाम्यऽमरनाथमहं दयालुम्।
हे पार्वतीश वृषभध्वज शूलपाणे
हे नीलकण्ठ मदनान्तक शुभ्रमूर्ते ।
हे भक्तकल्पतरुरूप सुखैकसिन्धो
मां पाहि पाहि भवतोऽमरनाथ नित्यम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |