अघोर रुद्र अष्टक स्तोत्र

कालाभ्रोत्पलकाल- गात्रमनलज्वालोर्ध्व- केशोज्ज्वलं
दंष्ट्राद्यस्फुटदोष्ठ- बिम्बमनलज्वालोग्र- नेत्रत्रयम्।
रक्ताकोरक- रक्तमाल्यरुचिरं रक्तानुलेपप्रियं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।
जङ्घालम्बितकिङ्किणी- मणिगणप्रालम्बि- मालाञ्चितं
दक्षान्त्रं डमरुं पिशाचमनिशं शूलं च मूलं करैः।
घण्टाखेटक- पालशूलकयुतं वामस्थिते बिभ्रतं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।
नागेन्द्रावृतमूर्ध्निज- स्थितगलश्रीहस्त- पादाम्बुजं
श्रीमद्दोःकटिकुक्षि- पार्श्वमभितो नागोपवीतावृतम्।
लूतावृश्चिक- राजराजितमहा- हाराङ्कितोरःस्स्थलं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।
धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि प्राणिनां
पाशान्ये क्षुरिकास्त्रपाश- दलितग्रन्थिं शिवास्त्राह्वयम्।
विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।
घोराघोरतराननं स्फुटदृशं सम्प्रस्फुरच्छूलकं
प्राज्यं नृत्तसुरूपकं चटचटज्वालाग्नि- तेजःकचम्।
जानुभ्यां प्रचटत्कृतारिनिकरं स्त्रग्रुण्डमालान्वितं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।
भक्तानिष्टक- दुष्टसर्पदुरित- प्रध्वंसनोद्योगयुक्
हस्ताग्रं फणिबद्धहस्तचरणं प्रारब्धयात्रापरम्।
स्वावृत्त्यास्थित- भीषणाङ्कनिकर- प्रारब्धसौभाग्यकं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।
यन्मन्त्राक्षरलाञ्छिताप- घनवन्मर्त्याश्च वज्रार्चिषो
भूतप्रेतपिशाचराक्षस- कलानिर्घातपाता इव।
उत्सन्नाश्च भवन्ति सर्वदुरित- प्रोच्चाटनोत्पादकं
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।
यद्ध्यानोद्यत- पूरुषोषितगृहग्राम- स्थिरास्थायिनो
भूतप्रेतपिशाच- राक्षसहता निर्घातपाता इव।
यद्रूपं विधिना स्मरन् हि विजयी शत्रुक्षयं प्राप्नुयाद्
वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |