गङ्गाधरं जटावन्तं पार्वतीसहितं शिवम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
ब्रह्मोपेन्द्रमहेन्द्रादि- सेविताङ्घ्रिं सुधीश्वरम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
भूतनाथं भुजङ्गेन्द्रभूषणं विषमेक्षणम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
पाशाङ्कुशधरं देवमभयं वरदं करैः|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
इन्दुशोभिललाटं च कामदेवमदान्तकम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
पञ्चाननं गजेशानतातं मृत्युजराहरम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
सगुणं निर्गुणं चैव तेजोरूपं सदाशिवम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
हिमवत्पुत्रिकाकान्तं स्वभक्तानां मनोगतम्|
वाराणसीपुराधीशं विश्वनाथमहं श्रये|
वाराणसीपुराधीश- स्तोत्रं यस्तु नरः पठेत्|
प्राप्नोति धनमैश्वर्यं बलमारोग्यमेव च।
रामदूत स्तोत्र
वज्रदेहममरं विशारदं भक्तवत्सलवरं द्विजोत्तमम्। रामपादनिरतं कपिप्रियं रामदूतममरं सदा भजे। ज्ञानमुद्रितकरानिलात्मजं राक्षसेश्वरपुरीविभावसुम्। मर्त्यकल्पलतिकं शिवप्रदं रामदूतममरं सदा भजे। जानकीमुखविकासकारणं सर्वदुःखभयहारिणं प्रभुम्। व्यक्तरूपममलं धराधरं रामद
Click here to know more..गुरु पादुका स्मृति स्तोत्र
प्रणम्य संविन्मार्गस्थानागमज्ञान् महागुरून्। प्रायश्चित्तं प्रवक्ष्यामि सर्वतन्त्राविरोधतः। प्रमाददोषजमल- प्रविलापनकारणम्। प्रायश्चित्तं परं सत्यं श्रीगुरोः पादुकास्मृतिः। यस्य श्रीपादरजसा रञ्जते मस्तके शिवः। रमते सह पार्वत्या तस्य श्रीपादुकास्मृतिः। यस्य
Click here to know more..शिवलिंग के बारे में कुछ विशेष जानकारी