अचिकित्सचिकित्साय आद्यन्तरहिताय च।अचिकित्सचिकित्साय आद्यन्तरहिताय च।सर्वलोकैकवन्द्याय वैद्यनाथाय ते नमः।अप्रेमेयाय महते सुप्रसन्नमुखाय च।अभीष्टदायिने नित्यं वैद्यनाथाय ते नमः।मृत्युञ्जयाय शर्वाय मृडानीवामभागिने।वेदवेद्याय रुद्राय वैद्यनाथाय ते नमः।श्रीरामभद्रवन्द्याय जगतां हितकारिणे।सोमार्धधारिणे नित्यं वैद्यनाथाय ते नमः।नीलकण्ठाय सौमित्रिपूजिताय मृडाय च।चन्द्रवह्न्यर्कनेत्राय वैद्यनाथाय ते नमः।शिखिवाहनवन्द्याय सृष्टिस्थित्यन्तकारिणे।मणिमन्त्रौषधीशाय वैद्यनाथाय ते नमः।गृध्रराजाभिवन्द्याय दिव्यगङ्गाधराय च।जगन्मयाय शर्वाय वैद्यनाथाय ते नमः।कुजवेदविधीन्द्राद्यैः पूजिताय चिदात्मने।आदित्यचन्द्रवन्द्याय वैद्यनाथाय ते नमः।वेदवेद्य कृपाधार जगन्मूर्ते शुभप्रद।अनादिवैद्य सर्वज्ञ वैद्यनाथ नमोऽस्तु ते।गङ्गाधर महादेव चन्द्रवह्न्यर्कलोचन।पिनाकपाणे विश्वेश वैद्यनाथ नमोऽस्तु ते।वृषवाहन देवेश अचिकित्सचिकित्सक।करुणाकर गौरीश वैद्यनाथ नमोऽस्तु ते।विधिविष्णुमुखैर्देवैरर्च्य- मानपदाम्बुज।अप्रमेय हरेशान वैद्यनाथ नमोऽस्तु ते।रामलक्ष्मणसूर्येन्दु- जटायुश्रुतिपूजित।मदनान्तक सर्वेश वैद्यनाथ नमोऽस्तु ते।प्रपञ्चभिषगीशान नीलकण्ठ महेश्वर।विश्वनाथ महादेव वैद्यनाथ नमोऽस्तु ते।उमापते लोकनाथ मणिमन्त्रौषधेश्वर।दीनबन्धो दयासिन्धो वैद्यनाथ नमोऽस्तु ते।त्रिगुणातीत चिद्रूप तापत्रयविमोचन।विरूपाक्ष जगन्नाथ वैद्यनाथ नमोऽस्तु ते।भूतप्रेतपिशाचादे- रुच्चाटनविचक्षण।कुष्ठादिसर्वरोगाणां संहर्त्रे ते नमो नमः।जाड्यन्धकुब्जादे- र्दिव्यरूपप्रदायिने।अनेकमूकजन्तूनां दिव्यवाग्दायिने नमः।