व्योमकेशं कालकालं व्यालमालं परात्परम्|
देवदेवं प्रपन्नोऽस्मि कथं मे जायते भयम्|
शूलहस्तं कृपापूर्णं व्याघ्रचर्माम्बरं शिवम्|
वृषारूढं प्रपन्नोऽस्मि कथं मे जायते भयम्|
अष्टमूर्तिं महादेवं विश्वनाथं जटाधरम्|
पार्वतीशं प्रपन्नोऽस्मि कथं मे जायते भयम्|
सुरासुरैश्च यक्षश्च सिद्धैश्चाऽपि विवन्दितम्|
मृत्युञ्जयं प्रपन्नोऽस्मि कथं मे जायते भयम्|
नन्दीशमक्षरं देवं शरणागतवत्सलम्|
चन्द्रमौलिं प्रपन्नोऽस्मि कथं मे जायते भयम्|
लोहिताक्षं भवाम्बोधितारकं सूर्यतेजसम्|
शितिकण्ठं प्रपन्नोऽस्मि कथं मे जायते भयम्|
शङ्करं लोकपालं च सुन्दरं भस्मधारिणम्|
वामदेवं प्रपन्नोऽस्मि कथं मे जायते भयम्|
त्रिनेत्रं त्रिपुरध्वान्तध्वंसिनं विश्वरूपिणम्|
विरूपाक्षं प्रपन्नोऽस्मि कथं मे जायते भयम्|
कैलासशैलनिलयं तपःसक्तं पिनाकिनम्|
कण्ठेकालं प्रपन्नोऽस्मि कथं मे जायते भयम्|
प्रीतात्मानं महैश्वर्यदानं निर्वाणरूपिणम्|
गङ्गाधरं प्रपन्नोऽस्मि कथं मे जायते भयम्|
य इदं स्तोत्ररत्नाख्यं शिवस्य भयहारकम्|
पठेदनुदिनं धीमान् तस्य नास्ति भयं भुवि|
गणेश अपराध क्षमापण स्तोत्र
कृता नैव पूजा मया भक्त्यभावात् प्रभो मन्दिरं नैव दृष्टं ....
Click here to know more..तुङ्गभद्रा स्तोत्र
तुङ्गा तुङ्गतरङ्गवेगसुभगा गङ्गासमा निम्नगा रोगान्ताऽ....
Click here to know more..गरुड़ का जन्म कैसे हुआ
गरुड़ के जन्म के पीछे कुछ ऋषियों की तपस्या थी जिनका इन्द्र ....
Click here to know more..