केयूरभूषं महनीयरूपं
रत्नाङ्कितं सर्पसुशोभिताङ्गम् ।
सर्वेषु भक्तेषु दयैकदृष्टिं
केदारनाथं भज लिङ्गराजम् ।।
त्रिशूलिनं त्र्यम्बकमादिदेवं
दैतेयदर्पघ्नमुमेशितारम् ।
नन्दिप्रियं नादपितृस्वरूपं
केदारनाथं भज लिङ्गराजम् ।।
कपालिनं कीर्तिविवर्धकं च
कन्दर्पदर्पघ्नमपारकायम्।
जटाधरं सर्वगिरीशदेवं
केदारनाथं भज लिङ्गराजम् ।।
सुरार्चितं सज्जनमानसाब्ज-
दिवाकरं सिद्धसमर्चिताङ्घ्रिं
रुद्राक्षमालं रविकोटिकान्तिं
केदारनाथं भज लिङ्गराजम् ।।
हिमालयाख्ये रमणीयसानौ
रुद्रप्रयागे स्वनिकेतने च ।
गङ्गोद्भवस्थानसमीपदेशे
केदारनाथं भज लिङ्गराजम् ।।