Other languages: EnglishTamilMalayalamTeluguKannada
क्षितीशपरिपालं हृतैकघनकालम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
सुदैवतरुमूलं भुजङ्गवरमालम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
प्रपञ्चधुनिकूलं सुतूलसमचित्तम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
वराङ्गपृथुचूलं करेऽपि धृतशूलम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
सुरेषु मृदुशीलं धरासकलहालम्।
भजेऽथ शिवमीशं शिवाय सुजनानाम्।
शिवस्य नुतिमेनां पठेद्धि सततं यः।
लभेत कृपया वै शिवस्य पदपद्मम्।