आत्मेश्वर पञ्चरत्न स्तोत्र

षडाधारोर्ध्वसन्निष्ठं षडुत्कर्षस्थलेश्वरम् ।
षट्सभारमणं वन्दे षडध्वाराधनक्षमम् ॥

श्रीमत्श्रीकुन्दमूलस्थललसितमहायोगपीठे निषण्णः
सर्वाधारो महात्माऽप्यनुपमितमहास्वादिकैलासवासी ।
यस्यास्ते कामिनी या नतजनवरदा योगमाता महेशी
सोऽव्यादात्मेश्वरो मां शिवपुररमणः सच्चिदानन्दमूर्तिः ॥

यो वेदान्तविचिन्त्यरूपमहिमा यं याति सर्वं जगत्
येनेदं भुवनं भृतं विधिमुखाः कुर्वन्ति यस्मै नमः ।
यस्मात् सम्प्रभवन्ति भूतनिकराः यस्य स्मृतिर्मोक्षकृत्
यस्मिन् योगरतिःशिवेति स महानात्मेश्वरः पातु नः ॥

तुर्यातीतपदोर्ध्वगं गुणपरं सत्तामयं सर्वगं
संवेद्यं श्रुतिशीर्षकैरनुपमं सर्वाधिकं शाश्वतम् ।
ओङ्कारान्तरबिन्दुमध्यसदनं ह्रीङ्कारलभ्यं नुमो
व्योमाकारशिखाविभाविमुनिसन्दृश्यं चिदात्मेश्वरम् ॥

वेदान्तार्थविचक्षणैरतितरां ब्रह्मेति यः कथ्यतेऽ-
प्यन्यैर्योगिजनैर्महापुरुष इत्यष्टाङ्गिभिश्चिन्तितः ।
कैश्चिल्लोकविपत्तिकृत् त्रिनयनःश्रीनीलकण्ठः स्मृतः
तं वन्दे परमात्मनाथमनिशं कुन्दद्रुमाधः स्थितम् ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |