कालभैरव अष्टोत्तर शतनामावलि

ॐ कूं कूं कूं कूं शब्दरताय नमः । क्रूं क्रूं क्रूं क्रूं परायणाय ।
कविकण्ठस्थिताय । कै ह्रीं ह्रूं कं कं कवि पूर्णदाय । कपालकज्जलसमाय ।
कज्जलप्रियतोषणाय । कपालमालाऽऽभरणाय । कपालकरभूषणाय ।
कपालपात्रसन्तुष्टाय । कपालार्घ्यपरायणाय । कदम्बपुष्पसम्पूज्याय ।
कदम्बपुष्पहोमदाय । कुलप्रियाय । कुलधराय । कुलाधाराय । कुलेश्वराय ।
कौलव्रतधराय । कर्मकामकेलिप्रियाय । क्रतवे ।
कलह ह्रींमन्त्रवर्णाय नमः । २०

ॐ कलह ह्रींस्वरूपिणे नमः । कङ्कालभैरवदेवाय ।
कङ्कालभैरवेश्वराय । कादम्बरीपानरताय । कादम्बरीकलाय ।
करालभैरवानन्दाय । करालभैरवेश्वराय । करालाय । कलनाधाराय ।
कपर्दीशवरप्रदाय । करवीरप्रियप्राणाय । करवीरप्रपूजनाय ।
कलाधाराय । कालकण्ठाय । कूटस्थाय । कोटराश्रयाय । करुणाय ।
करुणावासाय । कौतुकिने । कालिकापतये नमः । ४०

ॐ कठिनाय नमः । कोमलाय । कर्णाय । कृत्तिवासकलेवराय । कलानिधये।
कीर्तिनाथाय । कामेन । हृदयङ्गमाय । कृष्णाय । काशीपतये । कौलाय ।
कुलचूडामणये । कुलाय । कालाञ्जनसमाकाराय । कालाञ्जननिवासनाय ।
कौपीनधारिणे । कैवर्ताय । कृतवीर्याय । कपिध्वजाय । कामरूपाय ।
कामगतये नमः । ६०

ॐ कामयोगपरायणाय नमः । कामसम्मर्दनरताय । कामगृहनिवासनाय ।
कालिकारमणाय । कालीनायकाय । कालिकाप्रियाय । कालीशाय ।
कालिकाकान्ताय । कल्पद्रुमलतामताय । कुलटालापमध्यस्थाय ।
कुलटासङ्गतोषिताय । कुलटाचुम्बनोद्युक्ताय । कुलटाकुचमर्दनाय ।
केरलाचारनिपुणाय । केरलेन्द्रगृहस्थिताय । कस्तूरीतिलकानन्दाय ।
कस्तूरीतिलकप्रियाय । कस्तूरीहोमसन्तुष्टाय । कस्तूरीतर्पणोद्यताय ।
कस्तूरीमार्जनोद्युक्ताय नमः । ८०

ॐ कस्तूरीकुण्डमज्जनाय नमः । कामिनीपुष्पनिलयाय ।
कामिनीपुष्पभूषणाय । कामिनीकुण्डसंलग्नाय । कामिनीकुण्डमध्यगाय ।
कामिनीमानसाराध्याय । कामिनीमानतोषिताय । काममञ्जीररणिताय ।
कामदेवप्रियातुराय । कर्पूरामोदरुचिराय । कर्पूरामोदधारणाय ।
कर्पूरमालाऽऽभरणाय । कूर्परार्णवमध्यगाय । क्रकसाय । क्रकसाराध्याय ।
कलापपुष्परूपकाय । कुशलाय । कुशलाकर्णये । कुक्कुरासङ्गतोषिताय ।
कुक्कुरालयमध्यस्थाय नमः । १००

ॐ काश्मीरकरवीरभृते नमः । कूटस्थाय । क्रूरदृष्टये।
केशवासक्तमानसाय । कुम्भीनसविभूषाढ्याय । कुम्भीनसवधोद्यताय नमः । कोटिकालानलाभासाय नमः । कालिकाहृदयस्थिताय नमः ।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |