कामेश्वर स्तोत्र

ककाररूपाय करात्तपाशसृणीक्षुपुष्पाय कलेश्वराय।
काकोदरस्रग्विलसद्गलाय कामेश्वरायास्तु नतेः सहस्रम्।
कनत्सुवर्णाभजटाधराय सनत्कुमारादिसुनीडिताय।
नमत्कलादानधुरन्धराय कामेश्वरायास्तु नतेः सहस्रम्।
कराम्बुजातम्रदिमावधूतप्रवालगर्वाय दयामयाय।
दारिद्र्यदावामृतवृष्टये ते कामेश्वरायास्तु नतेः सहस्रम्।
कल्याणशैलेषुधयेऽहिराजगुणाय लक्ष्मीधवसायकाय।
पृथ्वीरथायागमसैन्धवाय कामेश्वरायास्तु नतेः सहस्रम्।
कल्याय बल्याशरसङ्घभेदे तुल्या न सन्त्येव हि यस्य लोके।
शल्यापहर्त्रै विनतस्य तस्मै कामेश्वरायास्तु नतेः सहस्रम्।
कान्ताय शैलाधिपतेः सुतायाः धटोद्भवात्रेयमुखार्चिताय।
अघौघविध्वंसनपण्डिताय कामेश्वरायास्तु नतेः सहस्रम्।
कामारये काङ्क्षितदाय शीघ्रं त्रात्रे सुराणां निखिलाद्भयाच्च।
चलत्फणीन्द्रश्रितकन्धराय कामेश्वरायास्तु नतेः सहस्रम्।
कालान्तकाय प्रणतार्तिहन्त्रे तुलाविहीनास्यसरोरुहाय।
निजाङ्गसौन्दर्यजिताङ्गजाय कामेश्वरायास्तु नतेः सहस्रम्।
कैलासवासादरमानसाय कैवल्यदाय प्रणतव्रजस्य।
पदाम्बुजानम्रसुरेश्वराय कामेश्वरायास्तु नतेः सहस्रम्।
हतारिषट्कैरनुभूयमाननिजस्वरूपाय निरामयाय।
निराकृतानेकविधामयाय कामेश्वरायास्तु नतेः सहस्रम्।
हतासुराय प्रणतेष्टदाय प्रभाविनिर्धूतजपासुमाय।
प्रकर्षदाय प्रणमज्जनानां कामेश्वरायास्तु नतेः सहस्रम्।
हराय ताराधिपशेखराय तमालसङ्काशगलोज्ज्वलाय।
तापत्रयाम्भोनिधिवाडवाय कामेश्वरायास्तु नतेः सहस्रम्।
हृद्यानि पद्यानि विनिःसरन्ति मुखाम्बुजाद्यत्पदपूजकानाम्।
विना प्रयत्नं कमपीह तस्मै कामेश्वरायास्तु नतेः सहस्रम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies