शिव शंकर स्तोत्र

सुरेन्द्रदेवभूतमुख्यसंवृतं
गले भुजङ्गभूषणं भयाऽपहम् ।
समस्तलोकवन्दितं सुनन्दितं
वृषाधिरूढमव्ययं परात्परम् ।।
वन्दे शिवशङ्करम् ।
अनाथनाथमर्कदीप्तिभासुरं
प्रवीणविप्रकीर्तितं सुकीर्तिदम् ।
विनायकप्रियं जगत्प्रमर्दनं
निरग्रजं नरेश्वरं निरीश्वरम् ।।
वन्दे शिवशङ्करम् ।
पिनाकहस्तमाशुपापनाशनं
परिश्रमेण साधनं भवाऽमृतम् ।
स्वरापगाधरं गुणैर्विवर्जितं
वरप्रदायकं विवेकिनं वरम् ।।
वन्दे शिवशङ्करम् ।
दयापयोनिधिं परोक्षमक्षयं
कृपाकरं सुभास्वरं वियत्स्थितम् ।
मुनिप्रपूजितं सुरं सभाजयं
सुशान्तमानसं चरं दिगम्बरम् ।
वन्दे शिवशङ्करम् ।
तमोविनाशनं जगत्पुरातनं
विपन्निवारणं सुखस्य कारणम् ।
सुशान्ततप्तकाञ्चनाभमर्थदं
स्वयंभुवं त्रिशूलिनं सुशङ्करम् ।।
वन्दे शिवशङ्करम् ।
हिमांशुमित्रहव्यवाहलोचनम्
उमापतिं कपर्दिनं सदाशिवम् ।
सुराग्रजं विशालदेहमीश्वरं
जटाधरं जरान्तकं मुदाकरम् ।।
वन्दे शिवशङ्करम् ।
समस्तलोकनायकं विधायकं
शरत्सुधांशुशेखरं शिवाऽऽवहम् ।
सुरेशमुख्यमीशमाऽऽशुरक्षकं
महानटं हरं परं महेश्वरम् ।।
वन्दे शिवशङ्करम् ।
शिवस्तवं जनस्तु यः पठेत् सदा
गुणं कृपां च साधुकीर्तिमुत्तमाम् ।
अवाप्नुते बलं धनं च सौहृदं
शिवस्य रूपमादिमं मुदा चिरम् ।।
वन्दे शिवशङ्करम् ।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |