श्रीकण्ठं परमोदारं सदाराध्यां हिमाद्रिजाम्|
नमस्याम्यर्धनारीशं पार्वतीमम्बिकां तथा|
शूलिनं भैरवं रुद्रं शूलिनीं वरदां भवाम्|
नमस्याम्यर्धनारीशं पार्वतीमम्बिकां तथा|
व्याघ्रचर्माम्बरं देवं रक्तवस्त्रां सुरोत्तमाम्|
नमस्याम्यर्धनारीशं पार्वतीमम्बिकां तथा|
बलीवर्दासनारूढं सिंहोपरि समाश्रिताम्|
नमस्याम्यर्धनारीशं पार्वतीमम्बिकां तथा|
काशीक्षेत्रनिवासं च शक्तिपीठनिवासिनीम्|
नमस्याम्यर्धनारीशं पार्वतीमम्बिकां तथा|
पितरं सर्वलोकानां गजास्यस्कन्दमातरम्|
नमस्याम्यर्धनारीशं पार्वतीमम्बिकां तथा|
कोटिसूर्यसमाभासं कोटिचन्द्रसमच्छविम्|
नमस्याम्यर्धनारीशं पार्वतीमम्बिकां तथा|
यमान्तकं यशोवन्तं विशालाक्षीं वराननाम्|
नमस्याम्यर्धनारीशं पार्वतीमम्बिकां तथा|
कपालमालिनं भीमं रत्नमाल्यविभूषणाम्|
नमस्याम्यर्धनारीशं पार्वतीमम्बिकां तथा|
शिवार्धाङ्गं महावीरं शिवार्धाङ्गीं महाबलाम्|
नमस्याम्यर्धनारीशं पार्वतीमम्बिकां तथा|
एक श्लोकी भागवत
आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनं मायापूतनजीवित....
Click here to know more..सुब्रह्मण्य पंचक स्तोत्र
सर्वार्तिघ्नं कुक्कुटकेतुं रममाणं वह्न्युद्भूतं भक्त....
Click here to know more..बुरी शक्तियों से रक्षा का मंत्र
ईशानां त्वा भेषजानामुज्जेष आ रभामहे । चक्रे सहस्रवीर्य....
Click here to know more..