यस्मात्परं न किल चापरमस्ति किञ्चिज्-
ज्यायान्न कोऽपि हि तथैव भवेत्कनीयान्।
निष्कम्प एक इति योऽव्ययसौख्यसिन्धु-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
यस्मिंस्तथैव बत विश्वविभेदभानम्।
योऽज्ञाननाशनविधौ प्रथितस्तोऽरि-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
यावन्न भक्तिरखिलेश्वरपादपद्मे
संसारसौख्यमिह यत्किल शुक्तिरौप्यम्।
यद्भक्तिरेव भवरोगनुदा सुधैव तं
विश्वनाथममलं मुनिवन्द्यमीडे।
यः काममत्तगजगण्डविभेदसिंहो
यो विघ्नसर्पभवभीतीनुदो गुरुत्मान्।
यो दुर्विषह्यभवतापजदुःखचन्द्र-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
वैराग्यभक्तिनवपल्लवकृद्वसन्तो
योभोगवासनावनप्रविदाहदावः।
योऽधर्मरावणविनाशनहेतुराम-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
स्वानन्यभक्तभववारिधिकुम्भजो यो
यो भक्तचञ्चलमनोभ्रमराब्जकल्पः।
यो भक्तसञ्चितघनप्रविभेदवात-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
सद्भक्तसधृदयपञ्जरगः शुको य
ओङ्कारनिःस्वनविलुब्धकरः पिको यः।
यो भक्तमन्दिरकदम्बचरो मयूर-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
यो भक्तकल्पितदकल्पतरुः प्रसिद्धो
यो भक्तचित्तगतकामधेनुति चोक्तः।
यो भक्तचिन्तितददिव्यममणिप्रकल्प-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
हेमैव यद्वदिह भूषणनाम धत्ते
ब्रह्मैव तद्वदिह शङ्करनाम धत्ते।
योभक्तभावतनुधृक् चिदखण्डरूप-
स्तं विश्वनाथममलं मुनिवन्द्यमीडे।
यन्नेति नेति वचनैर्निगमा वदन्ति
यज्जीवविश्वभवशोकभयातिदूरम्।
सच्चित्सुखाद्वयमिदं मम शुद्धरूपं
तं विश्वनाथममलं मुनिवन्द्यमीडे।
गणपति कवच
नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने। कार्यारम्भेषु सर....
Click here to know more..विष्णु जय मंगल स्तोत्र
जय जय देवदेव। जय माधव केशव। जयपद्मपलाशाक्ष। जय गोविन्द ग....
Click here to know more..तीर्थ स्थानों में कभी पाप न करें