अमृतबलाहक- मेकलोकपूज्यं
वृषभगतं परमं प्रभुं प्रमाणम्।
गगनचरं नियतं कपालमालं
शिवमथ भूतदयाकरं भजेऽहम्।
गिरिशयमादिभवं महाबलं च
मृगकरमन्तकरं च विश्वरूपम्।
सुरनुतघोरतरं महायशोदं
शिवमथ भूतदयाकरं भजेऽहम्।
अजितसुरासुरपं सहस्रहस्तं
हुतभुजरूपचरं च भूतचारम्।
महितमहीभरणं बहुस्वरूपं
शिवमथ भूतदयाकरं भजेऽहम्।
विभुमपरं विदितदं च कालकालं
मदगजकोपहरं च नीलकण्ठम्।
प्रियदिविजं प्रथितं प्रशस्तमूर्तिं
शिवमथ भूतदयाकरं भजेऽहम्।
सवितृसमामित- कोटिकाशतुल्यं
ललितगुणैः सुयुतं मनुष्बीजम्।
श्रितसदयं कपिलं युवानमुग्रं
शिवमथ भूतदयाकरं भजेऽहम्।
वरसुगुणं वरदं सपत्ननाशं
प्रणतजनेच्छितदं महाप्रसादम्।
अनुसृतसज्जन- सन्महानुकम्पं
शिवमथ भूतदयाकरं भजेऽहम्।
कल्याणकर कृष्ण स्तोत्र
कृष्णः करोतु कल्याणं कंसकुञ्जरकेसरी। कालिन्दीलोलकल्ल....
Click here to know more..कामाक्षी अष्टक स्तोत्र
श्रीकाञ्चीपुरवासिनीं भगवतीं श्रीचक्रमध्ये स्थितां कल....
Click here to know more..पुस्तक का ज्ञान बहुत सीमित है