भुवने सदोदितं हरं
गिरिशं नितान्तमङ्गलम्।
शिवदं भुजङ्गमालिनं
भज रे शिवं सनातनम्।
शशिसूर्यवह्निलोचनं
सदयं सुरात्मकं भृशम्।
वृषवाहनं कपर्दिनं
भज रे शिवं सनातनम्।
जनकं विशो यमान्तकं
महितं सुतप्तविग्रहम्।
निजभक्तचित्तरञ्जनं
भज रे शिवं सनातनम्।
दिविजं च सर्वतोमुखं
मदनायुताङ्गसुन्दरम्।
गिरिजायुतप्रियङ्करं
भज रे शिवं सनातनम्।
जनमोहकान्धनाशकं
भगदायकं भयापहम्।
रमणीयशान्तविग्रहं
भज रे शिवं सनातनम्।
परमं चराचरे हितं
श्रुतिवर्णितं गतागतम्।
विमलं च शङ्करं वरं
भज रे शिवं सनातनम्।