शिव पंचरत्न स्तोत्र

मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजं
भक्तचिन्तितसिद्धि- दानविचक्षणं कमलेक्षणम्।
भुक्तिमुक्तिफलप्रदं भवपद्मजाऽच्युतपूजितं
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्।
वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरै-
र्मुक्तिकामिभिराश्रितै- र्मुनिभिर्दृढामलभक्तिभिः।
मुक्तिदं निजपादपङ्कज- सक्तमानसयोगिनां
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्।
कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै
यक्षराक्षसमर्त्यकिन्नर- देवपन्नगवन्दितम्।
रक्तभुग्गणनाथहृद्भ्रम- राञ्चिताङ्घ्रिसरोरुहं
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्।
नक्तनाथकलाधरं नगजापयोधरनीरजा-
लिप्तचन्दनपङ्ककुङ्कुम- पङ्किलामलविग्रहम्।
शक्तिमन्तमशेष- सृष्टिविधायकं सकलप्रभुं
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्।
रक्तनीरजतुल्यपादप- योजसन्मणिनूपुरं
पत्तनत्रयदेहपाटन- पङ्कजाक्षशिलीमुखम्।
वित्तशैलशरासनं पृथुशिञ्जिनीकृततक्षकं
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम्।
यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः
प्रातरेव मया कृतं निखिलाघतूलमहानलम्।
तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात्
ते महेश्वर शङ्कराखिल विश्वनायक शाश्वत।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |