चाम्पेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय।
धम्मल्लिकायै च जटाधराय
नमः शिवायै च नमः शिवाय।
कस्तूरिकाकुङ्कुमचर्चितायै
चितारजःपुञ्जविचर्चिताय।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय।
झणत्कणत्कङ्कणनूपुरायै
पादाब्जराजत्फणिनूपुरायै।
हेमाङ्गदायै भुजगाङ्गदाय
नमः शिवायै च नमः शिवाय।
विशालनीलोत्पललोचनायै
विकासिपङ्केरुहलोचनाय।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय।
मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धराय।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय।
अम्भोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय।
प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय।
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय।
प्रदीप्तरत्नोज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय।
एतत् पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी।
प्राप्नोति सौभाग्यमनन्तकालं
भूयात् सदा तस्य समस्तसिद्धिः।
शिव भक्ति कल्पलतिका स्तोत्र
श्रीकान्तपद्मजमुखैर्हृदि चिन्तनीयं श्रीमत्क्व शङ्कर ....
Click here to know more..सीतापति पंचक स्तोत्र
भक्ताह्लादं सदसदमेयं शान्तं रामं नित्यं सवनपुमांसं देव....
Click here to know more..अच्युतं केशवं - कौन कहते है भगवान
अच्युतं केशवं कृष्णदामोदरं रामनारायणं जानकीवल्लभम्| क....
Click here to know more..