श्रीदेवराजमनिशं निगमान्तवेद्यं
यज्ञेश्वरं विधिमहेन्द्र- हितैकलक्ष्यम्|
नव्याम्बुवाहसुषमा- तनुशोभमानं
श्रीहस्तिशैलसदनं वरदं प्रपद्ये|
पङ्केरुहासनकृतामल- वाजियज्ञे
वैतानके हुतभुजि त्वरयाऽऽविरासीत्|
मन्दस्मिताञ्चित- मुखेन वपां दशन्
यस्तं नागशैलसदनं वरदं प्रपद्ये|
चण्डांशुशीतकिरणायत- नेत्रयुग्मं
पद्मानिवास- रमणीयभुजान्तरं तम्|
आजानुबाहुमुररी- कृतसप्ततन्तुं
मातङ्गशैलसदनं वरदं प्रपद्ये|
रत्नप्रकाण्ड- रचितालसदूर्ध्वपुण्ड्रं
बिभ्राणमन्तकरिपुप्रिय- मित्रवर्यम्|
शङ्खं च चक्रमभयाङ्कगदे दधानं
नागेन्द्रशैलसदनं वरदं प्रपद्ये|
नन्दात्मजं हलधरं दशकण्ठकालं
क्षत्रद्विषं कलिरिपुं नरसिंहवेषम्|
कोलात्मकं कमठरूपधरं च मत्स्यं
वेतण्डशैलसदनं वरदं प्रपद्ये|
वेंकटेश कवच
अस्य श्रीवेङ्कटेशकवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः....
Click here to know more..श्री रामचंद्र कृपालु
श्री राम चन्द्र कृपालु भजुमन हरण भवभय दारुणम् नव कंज लोच....
Click here to know more..अग्नि यज्ञ, देव यज्ञ और ब्रह्म यज्ञ