शनि पंचक स्तोत्र

सर्वाधिदुःखहरणं ह्यपराजितं तं
मुख्यामरेन्द्रमहितं वरमद्वितीयम्।
अक्षोभ्यमुत्तमसुरं वरदानमार्किं
वन्दे शनैश्चरमहं नवखेटशस्तम्।
आकर्णपूर्णधनुषं ग्रहमुख्यपुत्रं
सन्मर्त्यमोक्षफलदं सुकुलोद्भवं तम्।
आत्मप्रियङ्करम- पारचिरप्रकाशं
वन्दे शनैश्चरमहं नवखेटशस्तम्।
अक्षय्यपुण्यफलदं करुणाकटाक्षं
चायुष्करं सुरवरं तिलभक्ष्यहृद्यम्।
दुष्टाटवीहुतभुजं ग्रहमप्रमेयं
वन्दे शनैश्चरमहं नवखेटशस्तम्।
ऋग्रूपिणं भवभयाऽपहघोररूपं
चोच्चस्थसत्फलकरं घटनक्रनाथम्।
आपन्निवारकमसत्यरिपुं बलाढ्यं
वन्दे शनैश्चरमहं नवखेटशस्तम्।
एनौघनाशनमनार्तिकरं पवित्रं
नीलाम्बरं सुनयनं करुणानिधिं तम्।
एश्वर्यकार्यकरणं च विशालचित्तं
वन्दे शनैश्चरमहं नवखेटशस्तम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |