गणाधिप अष्टक स्तोत्र

श्रियमनपायिनीं प्रदिशतु श्रितकल्पतरुः
शिवतनयः शिरोविधृतशीतमयूखशिशुः।
अविरतकर्णतालजमरुद्गमनागमनै-
रनभिमतं धुनोति च मुदं वितनोति च यः।
सकलसुरासुरादिशरणीकरणीयपदः
करटिमुखः करोतु करुणाजलधिः कुशलम्।
प्रबलतरान्तरायतिमिरौघनिराकरण-
प्रसृमरचन्द्रिकायितनिरन्तरदन्तरुचिः।
द्विरदमुखो धुनोतु दुरितानि दुरन्तमद-
त्रिदशविरोधियूथकुमुदाकरतिग्मकरः।
नतशतकोटिपाणिमकुटीतटवज्रमणि-
प्रचुरमरीचिवीचिगुणिताङ्ग्रिनखांशुचयः।
कलुषमपाकरोतु कृपया कलभेन्द्रमुखः
कुलगिरिनन्दिनीकुतुकदोहनसंहननः।
तुलितसुधाझरस्वकरशीकरशीतलता-
शमितनताशयज्वलदशर्मकृशानुशिखः।
गजवदनो धिनोतु धियमाधिपयोधिवल-
त्सुजनमनःप्लवायितपदाम्बुरुहोऽविरतम्।
करटकटाहनिर्गलदनर्गलदानझरी-
परिमललोलुपभ्रमददभ्रमदभ्रमरः।
दिशतु शतक्रतुप्रभृतिनिर्जरतर्जनकृ-
द्दितिजचमूचमूरुमृगराडिभराजमुखः।
प्रमदमदक्षिणाङ्घ्रिविनिवेशितजीवसमा-
घनकुचकुम्भगाढपरिरम्भणकण्टकितः।
अतुलबलोऽतिवेलमघवन्मतिदर्पहरः
स्फुरदहितापकारिमहिमा वपुषीढविधुः।
हरतु विनायकः स विनताशयकौतुकदः
कुटिलतरद्विजिह्वकुलकल्पितखेदभरम्।
निजरदशूलपाशनवशालिशिरोरिगदा-
कुवलयमातुलुङ्गकमलेक्षुशरासकरः।
दधदथ शुण्डया मणिघटं दयितासहितो
वितरतु वाञ्छितं झटिति शक्तिगणाधिपतिः।
पठतु गणाधिपाष्टकमिदं सुजनोऽनुदिनं
कठिनशुचाकुठावलिकठोरकुठारवरम्।
विमतपराभवोद्भटनिदाघनवीनघनं
विमलवचोविलासकमलाकरबालरविम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |