अशेषकर्मसाक्षिणं महागणेशमीश्वरं
सुरूपमादिसेवितं त्रिलोकसृष्टिकारणम्।
गजासुरस्य वैरिणं परापवर्गसाधनं
गुणेश्वरं गणञ्जयं नमाम्यहं गणाधिपम्।
यशोवितानमक्षरं पतङ्गकान्तिमक्षयं
सुसिद्धिदं सुरेश्वरं मनोहरं हृदिस्थितम्।
मनोमयं महेश्वरं निधिप्रियं वरप्रदं
गणप्रियं गणेश्वरं नमाम्यहं गणाधिपम्।
नतेश्वरं नरेश्वरं नृतीश्वरं नृपेश्वरं
तपस्विनं घटोदरं दयान्वितं सुधीश्वरम्।
बृहद्भुजं बलप्रदं समस्तपापनाशनं
गजाननं गुणप्रभुं नमाम्यहं गणाधिपम्।
उमासुतं दिगम्बरं निरामयं जगन्मयं
निरङ्कुशं वशीकरं पवित्ररूपमादिमम्।
प्रमोददं महोत्कटं विनायकं कवीश्वरं
गुणाकृतिं च निर्गुणं नमाम्यहं गणाधिपम्।
रसप्रियं लयस्थितं शरण्यमग्र्यमुत्तमं
पराभिचारनाशकं सदाशिवस्वरूपिणम्।
श्रुतिस्मृतिप्रवर्तकं सहस्रनामसंस्तुतं
गजोत्तमं नराश्रयं नमाम्यहं गणाधिपम्।
गणेशपञ्चचामरीं स्तुतिं सदा सनातनीं
सदा गणाधिपं स्मरन् पठन् लभेत सज्जनः।
परां गतिं मतिं रतिं गणेशपादसारसे
यशःप्रदे मनोरमे परात्परे च निर्मले।
सुब्रह्मण्य कवच
नारद उवाच- देवेश श्रोतुमिच्छामि ब्रह्मन् वागीश तत्त्वत....
Click here to know more..शारदा भुजंग स्तोत्र
सुवक्षोजकुम्भां सुधापूर्णकुम्भां प्रसादावलम्बां प्रप....
Click here to know more..साधु जन पुण्य तीर्थ जैसे हैं