गणेश अष्टोत्तर शतनाम स्तोत्र

 

Ganesha Ashtottara

 

गणेश्वरो गणक्रीडो महागणपतिस्तथा ।
विश्वकर्ता विश्वमुखो दुर्जयो धूर्जयो जयः ॥
स्वरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥
चित्राङ्गः श्यामदशनो भालचन्द्रश्चतुर्भुजः ।
शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः ॥
कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः ।
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ॥
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ।
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः॥
इक्षुचापधरः शूली कान्तिकन्दलिताश्रयः ।
अक्षमालाधरो ज्ञानमुद्रावान् विजयावहः ॥
कामिनीकामनाकाममालिनीकेलिलालितः ।
अमोघसिद्धिराधार आधाराधेयवर्जितः ॥
इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः ।
कार्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥
कमण्डलुधरः कल्पः कपर्दी कटिसूत्रभृत् ।
कारुण्यदेहः कपिलो गुह्यागमनिरूपितः॥
गुहाशयो गहाब्धिस्थो घटकुम्भो घटोदरः ।
पूर्णानन्दः परानन्दो धनदो धरणीधरः ॥
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
भव्यो भूतालयो भोगदाता चैव महामनाः ॥
वरेण्यो वामदेवश्च वन्द्यो वज्रनिवारणः ।
विश्वकर्ता विश्वचक्षुर्हवनं हव्यकव्यभुक् ॥
स्वतन्त्रः सत्यसंकल्पस्तथा सौभाग्यवर्द्धनः ।
कीर्तिदः शोकहारी च त्रिवर्गफलदायकः ॥
चतुर्बाहश्चतुर्दन्तश्चतुर्थीतिथिसंभवः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥
कामरूपः कामगतिर्द्विरदो द्वीपरक्षकः ।
क्षेत्राधिपः क्षमाभर्ता लयस्थो लड्डुकप्रियः ॥
प्रतिवादिमुखस्तम्भो दुष्टचित्तप्रमर्द्दनः ।
भगवान् भक्तिसुलभो याज्ञिको याजकप्रियः ॥
इत्येवं देवदेवस्य गणराजस्य धीमतः ।
शतमष्टोत्तरं नाम्नां सारभूतं प्रकीर्तितम् ॥
सहस्रनाम्नामाकृष्य प्रोक्तं स्तोत्रं मनोहरम् ।
ब्राह्म मुहूर्ते चोत्थाय स्मृत्वा देवं गणेश्वरम् ।
पठेत्स्तोत्रमिदं भक्त्या गणराजः प्रसीदति ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |