गणेश्वर स्तुति

शुचिव्रतं दिनकरकोटिविग्रहं
बलन्धरं जितदनुजं रतप्रियम्।
उमासुतं प्रियवरदं सुशङ्करं
नमाम्यहं विबुधवरं गणेश्वरम्।
वनेचरं वरनगजासुतं सुरं
कवीश्वरं नुतिविनुतं यशस्करम्।
मनोहरं मणिमकुटैकभूषणं
नमाम्यहं विबुधवरं गणेश्वरम्।
तमोहरं पितृसदृशं गणाधिपं
स्मृतौ गतं श्रुतिरसमेककामदम्।
स्मरोपमं शुभफलदं दयाकरं
नमाम्यहं विबुधवरं गणेश्वरम्।
जगत्पतिं प्रणवभवं प्रभाकरं
जटाधरं जयधनदं क्रतुप्रियं
नमाम्यहं विबुधवरं गणेश्वरम्।
धुरन्धरं दिविजतनुं जनाधिपं
गजाननं मुदितहृदं मुदाकरम्।
शुचिस्मितं वरदकरं विनायकं
नमाम्यहं विबुधवरं गणेश्वरम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |