गणेश मञ्जरी स्तोत्र

सद्गुरुगजास्यवाणीचरणयुगाम्भोरुहेषु मद्धृदयम् ।
सततं द्विरेफलीलां करुणामकरन्दलिप्सया तनुताम् ॥

कल्याणं नः क्रियासुः कटतटविगलद्दाननीरप्रवाहो-
न्माद्यद्भृङ्गारवारावितनिखिलजगन्मण्डलस्येशसूनोः ।
प्रत्यूहध्वान्तराशिप्रमथनशुचिकालीनमध्याह्नभानोः
वामाश्लिष्टप्रियस्य प्रणतदुरितहृद्दन्तिनः सत्कटाक्षाः ॥

सिन्दूरबन्धुरमुखं सिन्धुरमाद्यं नमामि शिरसाऽहम् ।
वृन्दारकमुनिवृन्दक सं सेव्यं विघ्नशैलदम्भोलिम् ॥

आधोरणा अंङ्कुशमेत्य हस्ते गजं विशिक्षन्त इति प्रथाऽस्ति ।
पञ्चास्यसूनुर्गज एव हस्ते धृत्वाऽङ्कुशं भाति विचित्रमेतत् ॥

लोके हस्ततले समेत्य हि सृणिं शिक्षन्त आधोरणाः
स्तम्बक्रीडमिति प्रथाऽखिलजनैः संश्रूयते दृश्यते ।
धृत्वा स्वीयशयेऽङ्कुशं मदविहीनोऽयं निराधोरणः
चित्रं पश्यत राजतीह विबुधाः पञ्चास्यसूनुर्गजः ॥

खगपपूजितसच्चरणाम्बुजं खगपशात्रववेष्टिततुन्दकम् ।
कवनसिद्ध्यभिलाष्यहमाश्रये कवनदीक्षितमादिगजाननम् ॥

गगनचारिभिरञ्चितपादुकं करधृताङ्कुशपाशसुमोदकम् ।
जितपतङ्गरुचिं शिवयोर्मुदं ददतमादिगजाननमाश्रये ॥

नागाननस्य जठरे निबद्धोऽयं विराजते ।
विनिर्गतो यथा नागो नाभ्यधोभुवनाद्बहिः ॥

प्रलम्बारिमुखस्तुत्यं जगदालम्बकारणम् ।
लम्बिमुक्तालताराजल्लम्बोदरमहं भजे ॥

गजेन्द्रवदनं हरिप्रमुखदेवसम्पूजितं
सहस्रकरतेजसं सकललोककामप्रदम् ।
दयारसमदोदकस्रवदुभौ कटौ बिभ्रतं
नमामि शिरसा सदा सृणिविभूषितं विघ्नपम् ॥

गण्डस्रवत्स्वच्छमदप्रवाहगङ्गाकटाक्षार्कसुतायुतश्च ।
जिह्वाञ्चले गुप्तवहत्सरस्वतीयुतोऽयमाभाति गजप्रयागः ॥

दन्ती नटः स्वपुरतोऽङ्गणरिङ्खमाण-
पाञ्चालिकेक्षणवतामिति सूचयन् सन् ।
मत्पादतामरसबम्भरमानसानां
जिह्वाङ्गणेऽजगृहिणीं खलु नाटयामि ॥

पिनाकिपार्वतीमुखारविन्दभास्करायितं
वराभयाङ्कुशादिमान् प्रफुल्लकञ्जसन्निभैः ।
करैर्दधानमानमत्सुतीक्ष्णबुद्धिदायकं
समस्तविघ्ननाशकं नमाम्यहं विनायकम् ॥

अन्तरायगिरिकृन्तनवज्रं दन्तकान्तिसुविभासितलोकम् ।
चिन्तनीयमनिशं मुनिवृन्दैः चिन्तयामि सततं गणनाथम् ॥

मुक्तिवधूवरणोत्सुकलोको रक्तिमशाश्वत आशु विहाय ।
भक्तियुक्तोऽमरपूजितमूर्ते शक्तिगणेश मुदाऽर्चति हि त्वाम् ॥

यत्पादपङ्कजमतीव सुपुण्यपाकाः
सम्पूजयन्ति भवसागरतारणार्थम् ।
तं पार्वतीशिवमुखाब्जसहस्रभानुं
वन्दे समस्तविषयाञ्चितमावहन्तम् ॥

गण्डप्रदेशविगलन्मदनीरपानमत्तद्विरेफमधुरस्वर दत्तकर्णम् ।
विघ्नाद्रिभेदशतकोटिमुमादिगुर्वोः वक्त्राब्जभास्करगणेशमहं नमामि ॥

गणेशोऽयं सूचयति मद्द्रष्टॄणां ददे श्रियम् ।
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ॥

पुरेन्दुकोपयुक्तदन्तिसान्त्वनेततारकाः
उत स्मितांशुसञ्चयो दिने दिने विजृम्भितः ।
उतोत्तमाङ्गनिस्सृता नु कुम्भसम्भवा इति
गणेशकण्ठतारका भवन्ति संशयास्पदम् ॥

मदङ्घ्र्यर्चकानां भवेज्जानुदघ्नो भवाम्भोधिरित्येतमर्थं विवक्षुः ।
करौ जानुयुग्मे निधायाविरास्ते पुरः श्रीगणेश कृपावारिराशिः ॥

लोके धनाढ्यो धनिनः करोति स्वपादमूलेतजनान् दरिद्रान् ।
त्वं पाशयुक्तोऽपि पदाब्जनम्रान् पाशैर्विमुक्तान् किमु युक्तमेतत् ॥

हे हेरम्ब मदीयचित्तहरिणं ह्यत्यन्तलोलं मुधा
धावन्तं विषयाख्यदुःखफलदारण्येऽनुधावन्नहम् ।
श्रान्तो नास्ति बलं ममास्य हनने ग्राहेऽपि वा तद्भवान्
कृत्वाऽस्मिन् परिपातु मां करुणया शार्दूलर्विक्रीडितम् ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |