विघ्नेश विघ्नचयखण्डननामधेय
श्रीशङ्करात्मज सुराधिपवन्द्यपाद।
दुर्गामहाव्रतफलाखिलमङ्गलात्मन्
विघ्नं ममापहर सिद्धिविनायक त्वम्।
सत्पद्मरागमणिवर्णशरीरकान्तिः
श्रीसिद्धिबुद्धिपरिचर्चितकुङ्कुमश्रीः।
दक्षस्तने वलियितातिमनोज्ञशुण्डो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
पाशाङ्कुशाब्जपरशूंश्च दधच्चतुर्भि-
र्दोर्भिश्च शोणकुसुमस्रगुमाङ्गजातः।
सिन्दूरशोभितललाटविधुप्रकाशो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
कार्येषु विघ्नचयभीतविरिञ्चिमुख्यैः
संपूजितः सुरवरैरपि मोहकाद्यैः।
सर्वेषु च प्रथममेव सुरेषु पूज्यो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
शीघ्राञ्चनस्खलनतुङ्गरवोर्ध्वकण्ठ-
स्थूलेन्दुरुद्रगणहासितदेवसङ्घः।
शूर्पश्रुतिश्च पृथुवर्त्तुलतुङ्गतुन्दो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
यज्ञोपवीतपदलम्भितनागराजो
मासादिपुण्यददृशीकृत-ऋक्षराजः।
भक्ताभयप्रद दयालय विघ्नराज
विघ्नं ममापहर सिद्धिविनायक त्वम्।
सद्रत्नसारततिराजितसत्किरीटः
कौसुम्भचारुवसनद्वय ऊर्जितश्रीः।
सर्वत्र मङ्गलकरस्मरणप्रतापो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
देवान्तकाद्यसुरभीतसुरार्तिहर्ता
विज्ञानबोधनवरेण तमोऽपहर्ता।
आनन्दितत्रिभुवनेश कुमारबन्धो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
पार्वती चालीसा
जय गिरी तनये दक्षजे शंभु प्रिये गुणखानि। गणपति जननी पार्....
Click here to know more..वेदव्यास अष्टक स्तोत्र
सुजने मतितो विलोपिते निखिले गौतमशापतोमरैः। कमलासनपूर्....
Click here to know more..आग्नेय कोण वास्तु शास्त्र में
आग्नेय कोण के देवता अग्नि हैं। अग्नि भगवान बहुत ही क्रोध....
Click here to know more..