गणनाथ स्तोत्र

प्रातः स्मरामि गणनाथमुखारविन्दं
नेत्रत्रयं मदसुगन्धितगण्डयुग्मम्।
शुण्डञ्च रत्नघटमण्डितमेकदन्तं
ध्यानेन चिन्तितफलं वितरन्नमीक्ष्णम्।
प्रातः स्मरामि गणनाथभुजानशेषा-
नब्जादिभिर्विलसितान् लसिताङ्गदैश्च।
उद्दण्डविघ्नपरिखण्डन- चण्डदण्डान्
वाञ्छाधिकं प्रतिदिनं वरदानदक्षान्।
प्रातः स्मरामि गणनाथविशालदेहं
सिन्दूरपुञ्जपरिरञ्जित- कान्तिकान्तम्।
मुक्ताफलैर्मणि- गणैर्लसितं समन्तात्
श्लिष्टं मुदा दयितया किल सिद्धलक्ष्म्या।
प्रातः स्तुवे गणपतिं गणराजराजं
मोदप्रमोदसुमुखादि- गणैश्च जुष्टम्।
शक्त्यष्टभिर्विलसितं नतलोकपालं
भक्तार्तिभञ्जनपरं वरदं वरेण्यम्।
प्रातः स्मरामि गणनायकनामरूपं
लम्बोदरं परमसुन्दरमेकदन्तम्।
सिद्धिप्रदं गजमुखं सुमुखं शरण्यं
श्रेयस्करं भुवनमङ्गलमादिदेवम्।
यः श्लोकपञ्चकमिदं पठति प्रभाते
भक्त्या गृहीतचरणो गणनायकस्य।
तस्मै ददाति मुदितो वरदानदक्ष-
श्चिन्तामणिर्निखिल- चिन्तितमर्थकामम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |