प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
भक्तावासं स्मरेन्नित्यमायु:कामार्थसिद्धये।
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।
तृतीयं कृष्णपिङ्गगाक्षं गजवक्त्रं चतुर्थकम्।
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम्।
नवमं भालचन्द्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्।
द्वादशैतानि नामानि त्रिसन्ध्यं य: पठेन्नर:।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम्।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्।
जपेद्गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्।
संवत्सरेण सिद्धिं च लभते नात्र संशय:।
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत्।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत:।
षोडश बाहु नरसिंह अष्टक स्तोत्र
भूखण्डं वारणाण्डं परवरविरटं डंपडंपोरुडंपं डिं डिं डिं डिं डिडिम्बं दहमपि दहमैर्झम्पझम्पैश्चझम्पैः। तुल्यास्तुल्यास्तुतुल्या धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कै- रेतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः। भूभृद्भूभृद्भुजङ्गं प्रलयरववरं प्रज्वज्ज्वालमालं
Click here to know more..बृहदीश्वर स्तोत्र
श्री रामचरित मानस द्वारा रामजी का दर्शन