भुजगतल्पगतं घनसुन्दरं
गरुडवाहनमम्बुजलोचनम्।
नलिनचक्रगदाधरमव्ययं
भजत रे मनुजाः कमलापतिम्।
अलिकुलासितकोमलकुन्तलं
विमलपीतदुकूलमनोहरम्।
जलधिजाश्रितवामकलेवरं
भजत रे मनुजाः कमलापतिम्।
किमु जपैश्च तपोभिरुताध्वरै-
रपि किमुत्तमतीर्थनिषेवणैः।
किमुत शास्त्रकदम्बविलोकणै-
र्भजत रे मनुजाः कमलापतिम्।
मनुजदेहमिमं भुवि दुर्लभं
समधिगम्य सुरैरपि वाञ्छितम्।
विषयलम्पटतामवहाय वै
भजत रे मनुजाः कमलापतिम्।
न वनिता न सुतो न सहोदरो
न हि पिता जननी न च बान्धवाः।
व्रजति साकमनेन जनेन वै
भजत रे मनुजाः कमलापतिम्।
सकलमेव चलं सचराऽचरं
जगदिदं सुतरां धनयौवनम्।
समवलोक्य विवेकदृशा द्रुतं
भजत रे मनुजाः कमलापतिम्।
विविधरोगयुतं क्षणभङ्गुरं
परवशं नवमार्गमनाकुलम्।
परिनिरीक्ष्य शरीरमिदं स्वकं
भजत रे मनुजाः कमलापतिम्।
मुनिवरैरनिशं हृदि भावितं
शिवविरिञ्चिमहेन्द्रनुतं सदा।
मरणजन्मजराभयमोचनं
भजत रे मनुजाः कमलापतिम्।
हरिपदाष्टकमेतदनुत्तमं
परमहंसजनेन समीरितम्।
पठति यस्तु समाहितचेतसा
व्रजति विष्णुपदं स नरो ध्रुवम्।
ऋण मोचन गणेश स्तुति
रक्ताङ्गं रक्तवस्त्रं सितकुसुमगणैः पूजितं रक्तगन्धैः क्षीराब्धौ रत्नपीठे सुरतरुविमले रत्नसिंहासनस्थम्। दोर्भिः पाशाङ्कुशेष्टा- भयधरमतुलं चन्द्रमौलिं त्रिणेत्रं ध्याये्छान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम्। स्मरामि देवदेवेशं वक्रतुण्डं महाबलम्। षडक्
Click here to know more..पंचमुखी हनुमान कवच
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः । गायत्रीछन्दः । पञ्चमुखविराट् हनुमान्देवता । ह्रीं बीजम् । श्रीं शक्तिः । क्रौं कीलकम् । क्रूं कवचम् । क्रैं अस्त्राय फट् ।
Click here to know more..मूर्ति से निर्माल्य निकालने की विधि