गणेशमजरामरं प्रखरतीक्ष्णदंष्ट्रं सुरं
बृहत्तनुमनामयं विविधलोकराजं परम्।
शिवस्य सुतसत्तमं विकटवक्रतुण्डं भृशं
भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्।
कुमारगुरुमन्नदं ननु कृपासुवर्षाम्बुदं
विनायकमकल्मषं सुरजनाऽऽनताङ्घ्रिद्वयम्।
सुरप्रमदकारणं बुधवरं च भीमं भृशं
भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्।
गणाधिपतिमव्ययं स्मितमुखं जयन्तं वरं
विचित्रसुममालिनं जलधराभनादं प्रियम्।
महोत्कटमभीप्रदं सुमुखमेकदन्तं भृशं
भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्।
जगत्त्रितयसम्मतं भुवनभूतपं सर्वदं
सरोजकुसुमासनं विनतभक्तमुक्तिप्रदम्।
विभावसुसमप्रभं विमलवक्रतुण्डं भृशं
भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्।
सुवाञ्छितफलरप्रदं ह्यनुपमं सुराधारकं
जगज्जयिनमेकलं मधुरमोदकश्रीकरम्।
विशालसुभुजान्तरं विमलवक्रतुण्डं भृशं
भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्।
गणेशनतिपञ्चकं सरसकाव्यशिक्षायुतं
लभेत स तु यः सदा त्विह पठेन्नरो भक्तिमान्।
कृपां मतिमु मुक्तिदां धनयशःसुखाशादिकं
गणेशकृपया कलौ ननु भवे सभोगामृतम्।
स्वर्ण गौरी स्तोत्र
वरां विनायकप्रियां शिवस्पृहानुवर्तिनीम् अनाद्यनन्तसम....
Click here to know more..शिव आरती
जय शिव ओंकारा, भज हर शिव ओंकारा, ब्रह्मा विष्णु सदाशिव अर्....
Click here to know more..शिव पुराण सुनकर चञ्चुला का मन परिवर्तन होता है