गणराज स्तोत्र

सुमुखो मखभुङ्मुखार्चितः सुखवृद्ध्यै निखिलार्तिशान्तये।
अखिलश्रुतिशीर्षवर्णितः सकलाद्यः स सदाऽस्तु मे हृदि।
प्रणवाकृतिमस्तके नयः प्रणवो वेदमुखावसानयोः।
अयमेव विभाति सुस्फुटं ह्यवतारः प्रथमः परस्य सः।
प्रथमं गुणनायको बभौ त्रिगुणानां सुनियन्त्रणाय यः।
जगदुद्भवपालनात्ययेष्वजविष्ण्वीशसुरप्रणोदकः।
विधिविष्णुहरेन्द्रदेवतादिगणानां परिपालनाद्विभुः।
अपि चेन्द्रियपुञ्जचालनाद्गणनाथः प्रथितोऽर्थतः स्फुटम्।
अणिमामुखसिद्धिनायका भजतः साधयतीष्टकामनाः।
अपवर्गमपि प्रभुर्धियो निजदासस्य तमो विहृत्य यः।
जननीजनकः सुखप्रदो निखिलानिष्टहरोऽखिलेष्टदः।
गणनायक एव मामवेद्रदपाशाङ्कुशमोदकान् दधत्।
शरणं करुणार्णवः स मे शरणं रक्ततनुश्चतुर्भुजः।
शरणं भजकान्तरायहा शरणं मङ्गलमूर्तिरस्तु मे।
सततं गणनायकं भजे नवनीताधिककोमलान्तरम्।
भजनाद्भवभीतिभञ्जनं स्मरणाद्विघ्ननिवारणक्षमम्।
अरुणारुणवर्णराजितं तरुणादित्यसमप्रभं प्रभुम्।
वरुणायुधमोदकावहं करुणामूर्तिमहं प्रणौमि तम्।
क्व नु मूषकवाहनं प्रभुं मृगये त्वज्ञतमोऽवनीतले।
विबुधास्तु पितामहादयस्त्रिषु लोकेष्वपि यं न लेभिरे।
शरणागतपालनोत्सुकं परमानन्दमजं गणेश्वरम्।
वरदानपटुं कृपानिधिं हृदयाब्जे निदधामि सर्वदा।
सुमुखे विमुखे सति प्रभौ न महेन्द्रादपि रक्षणं कदा।
त्वयि हस्तिमुखे प्रसन्नताऽभिमुखेनापि यमाद्भयं भवेत्।
सुतरां हि जडोऽपि पण्डितः खलु मूकोऽप्यतिवाक्पतिर्भवेत्।
गणराजदयार्द्रवीक्षणादपि चाज्ञः सकलज्ञातामियात्।
अमृतं तु विषं विषं सुधा परमाणुस्तु नगो नगोऽप्यणुः।
कुलिशं तु तृणं तृणं पविर्गणनाथाशु तवेच्छया भवेत्।
गतोऽसि विभो विहाय मां ननु सर्वज्ञ न वेत्सि मां कथम्।
किमु पश्यसि विश्वदृङ् न मां न दया किमपि ते दयानिधे ।
अयि दीनदयासरित्पते मयि नैष्ठुर्यमिदं कुतः कृतम्।
निजभक्तिसुधालवोऽपि यन्न हि दत्तो जनिमृत्युमोचकः।
नितरां विषयोपभोगतः क्षपितं त्वायुरमूल्यमेनसा।
अहहाज्ञतमस्य साहसं सहनीयं कृपया त्वया विभो।
भगवन्नहि तारकस्य ते वत मन्त्रस्य जपः कृतस्तथा।
न कदैकधियापि चिन्तनं तव मूर्तेस्तु मयातिपाप्मना।
भजनं न कृतं समर्चनं तव नामस्मरणं न दर्शनम्।
हवनं प्रियमोदकार्पणं नवदूर्वा न समर्पिता मया।
नच साधुसमागमः कृतस्तव भक्ताश्च मया न सत्कृताः।
द्विजभोजनमप्यकारि नो वत दौरात्म्यमिदं क्षमस्व मे।
न विधिं तव सेवनस्य वा नच जाने स्तवनं मनुं तथा।
करयुग्मशिरःसुयोजनं तव भूयाद्गणनाथपूजनम्।
अथ का गणनाथ मे गतिर्नहि जाने पतितस्य भाविनी।
इति तप्ततनुं सदाऽव मामनुकम्पार्द्रकटाक्षवीक्षणैः।
इह दण्डधरस्य सङ्गमेऽखिलधैर्यच्यवने भयङ्करे।
अविता गणराज को नु मां तनुपातावसरे त्वया विना।
वद कं भवतोऽन्यमिष्टदाच्छरणं यामि दयाधनादृते।
अवनाय भवाग्निभर्जितो गतिहीनः सुखलेशवर्जितः।
श्रुतिमृग्यपथस्य चिन्तनं किमु वाचोऽविषयस्य संस्तुतिम्।
किमु पूजनमप्यनाकृतेरसमर्थो रचयामि देवते।
किमु मद्विकलात्स्वसेवनं किमु रङ्कादुपचारवैभवम्।
जडवाङ्मतितो निजस्तुतिं गणनाथेच्छसि वा दयानिधे।
अधुनापि च किं दया न ते मम पापातिशयादितीश चेत्।
हृदये नवनीतकोमले न हि काठिन्यनिवेशसम्भवः।
व्यसनार्दितसेवकस्य मे प्रणतस्याशु गणेश पादयोः।
अभयप्रदहस्तपङ्कजं कृपया मूर्ध्नि कुरुष्व तावकम्।
जननीतनयस्य दृक्पथं मुहुरेति प्रसभं दयार्द्रधीः।
मम दृग्विषयस्तथैव भो गणनाथाशु भवनुकम्पया।
गजराजमुखाय ते नमो मृगराजोत्तमवाहनाय ते।
द्विजराजकलाभृते नमो गणराजाय सदा नमोऽस्तु ते।
गणनाथ गणेश विघ्नराट् शिवसूनो जगदेकसद्गुरो।
सुरमानुषगीतमद्यशः प्रणतं मामव संसृतेर्भयात्।
जय सिद्धिपते महामते जय बुद्धीश जडार्तसद्गते।
जय योगिसमूहसद्गुरो जय सेवारत कल्पनातरो।
तनुवाग् हृदयैरसच्च सद्यदनस्थात्रितये कृतं मया।
जगदीश करिष्यमाणमप्यखिलं कर्म गणेश तेऽर्पितम्।
इति कृष्णमुखोद्गतं स्तवं गणराजस्य पुरः पठेन्नरः।
सकलाधिविवर्जितो भवेत्सुतदारादिसुखी स मुक्तिभाक्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |