एकदंत स्तोत्र

गृत्समद उवाच -
मदासुरः प्रणम्यादौ परशुं यमसन्निभम् ।
तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥१॥

मदासुर उवाच -
नमस्ते शस्त्रराजाय नमस्ते परशो महन् ।
तेजःपुञ्जमयायैव कालकालाय ते नमः ॥२॥

एकदन्तस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् ।
त्वमेव नात्र सन्देहो रक्ष मां शरणागतम् ॥३॥

अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् ।
रक्ष मां भयभीतं वै शरणागतवत्सल ॥४॥

कालरूपस्त्वमेवेह महाप्रलयसूचकः ।
कः समर्थश्च ते वेगसहने देहधारकः ॥५॥

नमस्ते एकदन्ताय मायामायिकरूपिणे ।
सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥६॥

मूषकारूढरूपाय मूषकध्वजिने नमः ।
सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥७॥

चतुर्बाहुधरायैव लम्बोदर सुरूपिणे ।
नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥८॥

चिन्तामणिधरायैव चित्तस्थाय गजानन ।
नानाभूषणयुक्ताय गणाधिपतये नमः ॥९॥

अनन्तविभवायैवानन्तमायाप्रचालक! ।
भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥१०॥

योगिनां योगदात्रे ते योगानां पतये नमः ।
योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥११॥

मायाकारं शरीरं ते एकशब्दः प्रकथ्यते ।
दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥१२॥

मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा ।
कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥१३॥

शरणागतपालाय शरणागतवत्सल ।
पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥१४॥

रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा ।
भक्तं भावेन संप्राप्तं संसारात्तारयस्व च ॥१५॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |