गजवदन अष्टक स्तोत्रं

गजवदन गणेश त्वं विभो विश्वमूर्ते
हरसि सकलविघ्नान् विघ्नराज प्रजानाम् ।
भवति जगति पूजा पूर्वमेव त्वदीया
वरदवर कृपालो चन्द्रमौले प्रसीद ॥

सपदि सकलविघ्नां यान्ति दूरे दयालो
तव शुचिरुचिरं स्यान्नामसङ्कीर्तनं चेत् ।
अत इह मनुजास्त्वां सर्वकार्ये स्मरन्ति
वरदवर कृपालो चन्द्रमौले प्रसीद ॥

सकलदुरितहन्तुः त स्वर्गमोक्षादिदातुः
सुररिपुवधकर्त्तुः सर्वविघ्नप्रहर्त्तुः ।
तव भवति कृपातोऽशेषसम्पत्तिलाभो
वरदवर कृपालो चन्द्रमौले प्रसीद ॥

तव गणप गुणानां वर्णने नैव शक्ता
जगति सकलवन्द्या शारदा सर्वकाले ।
तदितरमनुजानां का कथा भालदृष्टे
वरदवर कृपालो चन्द्रमौले प्रसीद ॥

बहुतरमनुजैस्ते दिव्यनाम्नां सहस्रैः
स्तुतिहुतिकरणेन प्राप्यते सर्वसिद्धिः ।
विधिरयमखिलो वै तन्त्रशास्त्रे प्रसिद्धः
वरदवर कृपालो चन्द्रमौले प्रसीद ॥

त्वदितरदिह नास्ते सच्चिदानन्दमूर्त्ते
इति निगदति शास्त्रं विश्वरूपं त्रिनेत्र ।
त्वमसि हरिरथ त्वं शङ्करस्त्वं विधाता
वरदवर कृपालो चन्द्रमौलेः प्रसीद ॥

सकलसुखद माया या त्वदीया प्रसिद्धा
शशधरधरसूने त्वं तया क्रीडसीह ।
नट इव बहुवेषं सर्वदा संविधाय
वरदवर कृपालो चन्द्रमौले प्रसीद ॥

भव इह पुरतस्ते पात्ररूपेण भर्त्तः
बहुविधनरलीलां त्वां प्रदर्श्याशु याचे ।
सपदि भवसमुद्रान्मां समुद्धारयस्व
वरदवर कृपालो चन्द्रमौले प्रसीद ॥

अष्टकं गणनाथस्य भक्त्या यो मानवः पठेत्
तस्य विघ्नाः प्रणश्यन्ति गणेशस्य प्रसादतः ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |