यज्ञोपवीतीकृतभोगिराजो
गणाधिराजो गजराजवक्त्रः।
सुराधिराजार्चितपादपद्मः
सदा कुमाराय शुभं करोतु।
विधातृपद्माक्षमहोक्षवाहाः
सरस्वतीश्रीगिरिजासमेताः।
आयुः श्रियं भूमिमनन्तरूपं
भद्रं कुमाराय शुभं दिशन्तु।
मासाश्च पक्षाश्च दिनानि ताराः
राशिश्च योगाः करणानि सम्यक्।
ग्रहाश्च सर्वेऽदितिजास्समस्थाः
श्रियं कुमाराय शुभं दिशन्तु।
ऋतुर्वसन्तः सुरभिः सुधा च
वायुस्तथा दक्षिणनामधेयः।
पुष्पाणि शश्वत्सुरभीणि कामः
श्रियं कुमाराय शुभं करोतु।
भानुस्त्रिलोकीतिलकोऽमलात्मा
कस्तूरिकालङ्कृतवामभागः।
पम्पासरश्चैव स सागरश्च
श्रियं कुमाराय शुभं करोतु।
भास्वत्सुधारोचिकिरीटभूषा
कीर्त्या समं शुभ्रसुगात्रशोभा।
सरस्वती सर्वजनाभिवन्द्या
श्रियं कुमाराय शुभं करोतु।
आनन्दयन्निन्दुकलावतंसो
मुखोत्पलं पर्वतराजपुत्र्याः।
स्पृसन् सलीलं कुचकुम्भयुग्मं
श्रियं कुमाराय शुभं करोतु।
वृषस्थितः शूलधरः पिनाकी
गिरिन्द्रजालङ्कृतवामभागः।
समस्तकल्याणकरः श्रितानां
श्रियं कुमाराय शुभं करोतु।
लोकानशेषानवगाहमाना
प्राज्यैः पयोभिः परिवर्धमाना।
भागीरथी भासुरवीचिमाला
श्रियं कुमाराय शुभं करोतु।
श्रद्धां च मेधां च यशश्च विद्यां
प्रज्ञां च बुद्धिं बलसम्पदौ च।
आयुष्यमारोग्यमतीव तेजः
सदा कुमाराय शुभं करोतु।
सुब्रह्मण्य पंचरत्न स्तोत्र
श्रुतिशतनुतरत्नं शुद्धसत्त्वैकरत्नं यतिहितकररत्नं यज....
Click here to know more..गणपति मंगल अष्टक स्तोत्र
गजाननाय गाङ्गेयसहजाय सदात्मने। गौरीप्रियतनूजाय गणेशा....
Click here to know more..वैदिक नित्य कर्म विधि
वैदिक नित्य कर्म और पूजा विधान का अमूल्य ग्रन्थ - व्याख्य....
Click here to know more..