दैवतदैवत मङ्गलमङ्गल पावनपावन कारणकारण ।
वेङ्कटभूधरमौलिविभूषण माधव भूधव देव जयीभव ॥
वारिदसन्निभ दयाकर शारदनीरजचारुविलोचन ।
देवशिरोमणिअपादसरोरुह वेङ्कटशैलपते विजयीभव ॥
अञ्जनशैलनिवास निरञ्जन रञ्जितसर्वजनाञ्जनमेचक ।
मामभिषिञ्च कृपामृतशीतलशीकरवर्षिदृशा जगदीश्वर ॥
वीतसमाधिक सारगुणाकर केवलसत्त्वतनो पुरुषोत्तम ।
भीमभवार्णवतारणकोविद वेङ्कटशैलपते विजयीभव ॥
स्वामिसरोवरतीररमाकृतकेलिमहारसलालसमानस ।
सारतपोधनचित्तनिकेतन वेङ्कटशैलपते विजयीभव ॥
आयुधभूषणकोटिनिवेशितशङ्खरथाङ्गजितामतसम्मत ।
स्वेतरदुर्घटसङ्घटनक्षम वेङ्कटशैलपते विजयीभव ॥
पङ्कजनाकृतिसौरभवासितशैलवनोपवनान्तर ।
मन्द्रमहास्वनमङ्गलनिर्ज्झर वेङ्कटशैलपते विजयीभव ॥
नन्दकुमारक गोकुलपालक गोपवधूवर कृष्ण ।
श्रीवसुदेव जन्मभयापह वेङ्कटशैलपते विजयीभव ॥
शैशवपातितपातकिपूतन धेनुककेशिमुखासुरसूदन ।
कालियमर्दन कंसनिरासक मोहतमोपह कृष्ण जयीभव ॥
पालितसङ्गर भागवतप्रिय सारथिताहिततोषपृथासुत ।
पाण्डवदूत पराकृतभूभर पाहि परावरनाथ परायण ॥
शातमखासुविभञ्जनपाटव सत्रिशिरःखरदूषणदूषण ।
श्रीरघुनायक राम रमासख विश्वजनीन हरे विजयीभव ॥
राक्षससोदरभीतिनिवारक शारदशीतमयूखमुखाम्बुज ।
रावणदारुणवारणदारणकेसरिपुङ्गव देव जयीभव ॥
काननवानरवीरवनेचरकुञ्जरसिंहमृगादिषु वत्सल ।
श्रीवरसूरिनिरस्तभवादर वेङ्कटशैलपते विजयीभव ॥
वादिसाध्वसकृत्सूरिकथितं स्तवनं महत् ।
वृषशैलपतेः श्रेयस्कामो नित्यं पठेत् सुधीः ॥