जगन्नाथ पंचक स्तोत्र

रक्ताम्भोरुहदर्पभञ्जन- महासौन्दर्यनेत्रद्वयं
मुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम्।
वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितं
पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे।
फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिं
विश्वेशं कमलाविलास- विलसत्पादारविन्दद्वयम्।
दैत्यारिं सकलेन्दुमण्डितमुखं चक्राब्जहस्तद्वयं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम्।
उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननं
राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारान्निधिम्।
भक्तानां सकलार्तिनाशनकरं चिन्तार्थिचिन्तामणिं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम्।
नीलाद्रौ शङ्खमध्ये शतदलकमले रत्नसिंहासनस्थं
सर्वालङ्कारयुक्तं नवघनरुचिरं संयुतं चाग्रजेन।
भद्राया वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्द्यं
वेदानां सारमीशं सुजनपरिवृतं ब्रह्मदारुं स्मरामि।
दोर्भ्यां शोभितलाङ्गलं समुसलं कादम्बरीचञ्चलं
रत्नाढ्यं वरकुण्डलं भुजबलैराक्रान्तभूमण्डलम्।
वज्राभामलचारुगण्डयुगलं नागेन्द्रचूडोज्ज्वलं
सङ्ग्रामे चपलं शशाङ्कधवलं श्रीकामपालं भजे।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies