पद्माधिराजे गरुडाधिराजे
विरिञ्चराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिलराजराजे
श्रीरङ्गराजे रमतां मनो मे ॥
नीलाब्जवर्णे भुजपूर्णकर्णे
कर्णान्तनेत्रे कमलाकलत्रे ।
श्रीमल्लरङ्गे जितमल्लरङ्गे
श्रीरङ्गरङ्गे रमतां मनो मे ॥
लक्ष्मीनिवासे जगतां निवासे
हृत्पद्मवासे रविबिम्बवासे ।
क्षीराब्धिवासे फणिभोगवासे
श्रीरङ्गवासे रमतां मनो मे ॥
कुबेरलीले जगदेकलीले
मन्दारमालाङ्कितचारुफाले ।
दैत्यान्तकालेऽखिललोकमौले
श्रीरङ्गलीले रमतां मनो मे ॥
अमोघनिद्रे जगदेकनिद्रे
विदेहनिद्रे च समुद्रनिद्रे ।
श्रीयोगनिद्रे सुखयोगनिद्रे
श्रीरङ्गनिद्रे रमतां मनो मे ॥
आनन्दरूपे निजबोधरूपे
ब्रह्मस्वरूपे क्षितिमूर्तिरूपे ।
विचित्ररूपे रमणीयरूपे
श्रीरङ्गरूपे रमतां मनो मे ॥
भक्ताकृतार्थे मुररावणार्थे
भक्तसमर्थे जगदेककीर्ते ।
अनेकमूर्ते रमणीयमूर्ते
श्रीरङ्गमूर्ते रमतां मनो मे ॥
कंसप्रमाथे नरकप्रमाथे
दुष्टप्रमाथे जगतां निदाने ।
अनाथनाथे जगदेकनाथे
श्रीरङ्गनाथे रमतां मनो मे ॥
सुचित्रशायी जगदेकशायी
नन्दाङ्कशायी कमलाङ्कशायी ।
अम्भोधिशायी वटपत्रशायी
श्रीरङ्गशायी रमतां मनो मे ॥
सकलदुरितहारी भूमिभारापहारी
दशमुखकुलहारी दैत्यदर्पापहारी ।
सुललितकृतचारी पारिजातापहारी
त्रिभुवनभयहारी प्रीयतां श्रीमुरारिः ॥
रङ्गस्तोत्रमिदं पुण्यं प्रातःकाले पठेन्नरः ।
कोटिजन्मार्जितं पापं स्मरणेन विनश्यति ॥
अक्षय गोपाल कवच
अपुत्रो लभते पुत्रं रोगनाशस्तथा भवेत्। सर्वतापप्रमुक्....
Click here to know more..अंगारक नामावलि स्तोत्र
अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः। कुमारो मङ्गलो भौ....
Click here to know more..अनुराधा नक्षत्र
अनुराधा नक्षत्र - व्यक्तित्व और विशेषताएं, स्वास्थ्य, व्....
Click here to know more..