सुमङ्गलं मङ्गलमीश्वराय ते
सुमङ्गलं मङ्गलमच्युताय ते।
सुमङ्गलं मङ्गलमन्तरात्मने
सुमङ्गलं मङ्गलमब्जनाभ ते।
सुमङ्गलं श्रीनिलयोरुवक्षसे
सुमङ्गलं पद्मभवादिसेविते।
सुमङ्गलं पद्मजगन्निवासिने
सुमङ्गलं चाश्रितमुक्तिदायिने।
चाणूरदर्पघ्नसुबाहुदण्डयोः
सुमङ्गलं मङ्गलमादिपूरुष।
बालार्ककोटिप्रतिमाय ते विभो
चक्राय दैत्येन्द्रविनाशहेतवे।
शङ्खाय कोटीन्दुसमानतेजसे
शार्ङ्गाय रत्नोज्ज्वलदिव्यरूपिणे।
खड्गाय विद्यामयविग्रहाय ते
सुमङ्गलं मङ्गलमस्तु ते विभो।
तदावयोस्तत्त्वविशिष्टशेषिणे
शेषित्वसम्बन्धनिबोधनाय ते।
यन्मङ्गलानां च सुमङ्गलाय ते
पुनः पुनर्मङ्गलमस्तु सन्ततम्।
गणनायक स्तोत्र
गुणग्रामार्चितो नेता क्रियते स्वो जनैरिति। गणेशत्वेन श....
Click here to know more..शंभु स्तोत्र
कैवल्यमूर्तिं योगासनस्थं कारुण्यपूर्णं कार्तस्वराभम्....
Click here to know more..त्रिकाल संध्या विधि