दशावतार मंगल स्तोत्र

आदावम्बुजसम्भवादिविनुतः शान्तोऽच्युतः शाश्वतः
सम्फुल्लामलपुण्डरीकनयनः पुण्यः पुराणः पुमान् ।
लोकेशः श्रुतिचोरसोमकहरो मत्स्यावतारो हरिः
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥

सप्तद्वीपकुलाचलेन्द्रजलधिस्तोमाभिसङ्क्रान्तभू-
भारालीढफणीन्द्रमन्दरधरो मन्दारमालार्चितः ।
भावज्ञो बहुचक्रलाञ्छिततनुः कूर्मावतारो हरिः
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥

लीलालोडितसर्वसागरजलः सम्पूर्णचन्द्रप्रभो
हेमाक्षासुरखण्डनो भुजगदः चक्राङ्कितः सन्ततम् ।
दंष्ट्राग्रोद्धृतमेदिनीभयहरः क्रोडावतारो हरिः
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥

कुन्देन्दुस्फटिकप्रभो बहुभुजो भूषासहस्रोज्ज्वलो
दैत्येन्द्रोदरदारणेऽतिनिपुणः स्तम्भोद्भवो भीषणः ।
प्रह्लादार्तिहरोदयो नरमृगाकारावतारो हरिः
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥

धातृक्षालितपादपङ्कजभवस्रोतोमहाशाम्बरः
प्रक्षालीकृतपादपद्मयुगलो बालो जगज्जीवनः ।
भिक्षार्थी बलिदर्पहा पटुवटुः खर्वावतारो हरिः
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥

सद्यःखण्डितराजमण्डलशरीरोद्भूतरक्तापगा
संसिक्ताखिलभूतलः पितृवचःसम्पालने निष्ठितः ।
वेदज्ञो जमदग्निजः परशुभृद्रामावतारो हरिः
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥

राजेन्द्रो रणरङ्गराजविनुतानेकासुराभासुरा-
कारो रावणकोटिखण्डनपटुः कोदण्डदीक्षागुरुः ।
सीतेशः सुरसज्जनामृतकरो रामावतारो हरिः
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥

कालिन्दीजलभेदनो बहुभुजो भूषासमुद्भासुरः
प्रध्वंसी मुसलायुधो हलधरो नीलाम्बरो निर्मलः ।
लावण्याप्पतिरेवतीपतिरसौ रामावतारो हरिः
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा भङ्गलम् ॥

धर्मज्ञत्रिपुराधिनाथवनिताधर्मोपदेष्टा च त-
त्पातिव्रत्यविशेषभञ्जनपरो वेदान्तवेद्यः सदा ।
दैत्यव्रातविनाशनादिचतुरो बुद्धावतारो हरिः
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥

म्लेच्छव्रातविनाशकः कलियुगान्तेऽश्वाधिरूढो महा-
मायावी बहुभानुकोटिसदृशो भीमांशुचक्रायुधः ।
यश्चाङ्गीकृतकल्किरूपविभवो भूमौ अविष्यान्वयः
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...