विश्वं दृश्यमिदं यतः समयवद्यस्मिन्य एतत् पुनः
भासा यस्य विराजतेऽथ सकलं येनेह या निर्मितम्।
यो वाचां मनसोऽप्यगोचरपदं मायातिगो भासते
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते।
लोके स्थावरजङ्गमात्मनि तु यः सर्वेषु जन्तुष्वलं
चैतन्यात्मतया विशन् विलसति ज्ञानस्वरूपोऽमलः।
नो लिप्तः पयसेव पङ्कजदलं मायाश्रयस्तद्गुणैः
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते।
यस्येशस्य निषेवयानवमया त्वाचार्यवर्यानना-
दुद्भूतप्रतिमोपदेशविकसत्साद्वर्त्मनावाप्तया।
मिथ्यात्वं जगतः स्फुटं हृदि भवेत्रज्जौ यथाहेस्तथा
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते।
रूपं यस्य मृगं न चेह मनुजं नो कर्म जातिं च नो
न द्रव्यं न गुणं स्त्रियं न पुरुषं नैवासुरं नो सुरम्।
नैवासच्च सदित्यनन्तधिषणाः प्राहुर्महान्तो बुधाः
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते।
मार्ताण्डो गगनोदितस्तु तिमिरं यद्वत्पिनष्टि क्षणात्
शीतं चानुपमं यथा च हुतभुग् रोगान्यथैवौषधम्।
अज्ञानं खिल तद्वदेव कृपया योऽसौ विदत्ते हतं
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते।
कल्पान्ते तु चराचरेऽथ भुवने नष्टे समस्ते पुनः
गम्भीरेण तथामितेन तमसा व्याप्ते च दिङ्मण्डले।
योऽसौ भाति तथा विभुर्वितिमिरस्तेजः स्वरूपोऽनिशं
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते।
लोके चात्र समाधिषट्कविकसद्दिव्यप्रबोधोज्ज्वल-
स्वान्ताः शान्ततमा जितेन्द्रियगणा धन्यास्तु सन्यासिनः।
मुक्तिं यत्करुणालवेन सरसं सम्प्राप्नुवन्तीह ते
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते।
कृत्वा हन्त मखान्यथाविधि पुमान् स्वर्गेच्छया भूतले
तेषां तत्र फलं च पुण्यसदृशं भुङ्क्ते च नातोदिकम्।
सेवा यस्य दधाति मुक्तिममलामानन्दसान्द्रां स्थिरं
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते।
स्वेनैवेह विनिर्मितं खलु जगत्कृत्स्नं स्वतो लीलया
स्वेनेदं परिपालितं पुनरिह स्वेनैव सन्नाशितम्।
पश्यन्तो मुदितः प्रभुर्विलसति श्रेयोऽयनं सात्वतां
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते।
चित्ते यस्य तु यादृशी प्रभवति श्रद्धा निजाराधने
तद्वत्तत्परिपालनाय विहितश्रद्धाय विश्वात्मने।
सच्चित्पूर्णसुखैकवारिधि लसत्कल्लोलरूपाय वै
तस्मै देव नमोऽस्तु विश्वगुरवे श्रीपद्मनाभाय ते।
जयतु जयतु सोऽयं पद्मनाभो मुकुन्दो
निजचरणरतानां पालने बद्धदीक्षः।
अविकलमपि चायुः श्रीसुखारोग्यकीर्तिः
प्रतिदिनमपि पुष्णन् स्वानुकम्पासुधाभिः।
एवं जगत्त्रयगुरोः कमलावरस्य
सङ्कीर्तनं गुणगणाब्धिलवस्य किञ्चित्।
देवस्य तस्य कृपयैव कृतं मयेदं
सन्तो गृणन्तु रसिकाः किल सप्रमोदम्।