कारुण्यं शरणार्थिषु प्रजनयन् काव्यादिपुष्पार्चितो
वेदान्तेडिविग्रहो विजयदो भूम्यैकशृङ्गोद्धरः।
नेत्रोन्मीलित- सर्वलोकजनकश्चित्ते नितान्तं स्थितः
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।
साङ्गाम्नायसुपारगो विभुरजः पीताम्बरः सुन्दरः
कंसारातिरधोक्षजः कमलदृग्गोपालकृष्णो वरः।
मेधावी कमलव्रतः सुरवरः सत्यार्थविश्वंभरः
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।
हंसारूढजगत्पतिः सुरनिधिः स्वर्णाङ्गभूषोज्जवलः
सिद्धो भक्तपरायणो द्विजवपुर्गोसञ्चयैरावृतः।
रामो दाशरथिर्दयाकरघनो गोपीमनःपूरितो
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।
हस्तीन्द्रक्षयमोक्षदो जलधिजाक्रान्तः प्रतापान्वितः
कृष्णाश्चञ्चल- लोचनोऽभयवरो गोवर्द्धनोद्धारकः।
नानावर्ण- समुज्ज्वलद्बहुसुमैः पादार्चितो दैत्यहा
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।
भावित्रासहरो जलौघशयनो राधापतिः सात्त्विको
धन्यो धीरपरो जगत्करनुतो वेणुप्रियो गोपतिः।
पुण्यार्चिः सुभगः पुराणपुरुषः श्रेष्ठो वशी केशवः
कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः।
द्वादश ज्योतिर्लिंग स्तोत्र
सौराष्ट्रदैशे वसुधावकाशे ज्योतिर्मयं चन्द्रकलावतम्सम....
Click here to know more..वेदसार शिव स्तोत्र
पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वर....
Click here to know more..अथर्व वेद का देवी देव्यामधि सूक्त
देवी देव्यामधि जाता पृथिव्यामस्योषधे । तां त्वा नितत्न....
Click here to know more..