अस्य श्रीवेङ्कटेशद्वादशनामस्तोत्रमहामन्त्रस्य। ब्रह्मा-ऋषिः।
अनुष्टुप्-छन्दः श्रीवेङ्कटेश्वरो देवता। इष्टार्थे विनियोगः।
नारायणो जगन्नाथो वारिजासनवन्दितः।
स्वामिपुष्करिणीवासी शन्ङ्खचक्रगदाधरः।
पीताम्बरधरो देवो गरुडासनशोभितः।
कन्दर्पकोटिलावण्यः कमलायतलोचनः।
इन्दिरापतिगोविन्दः चन्द्रसूर्यप्रभाकरः।
विश्वात्मा विश्वलोकेशो जयश्रीवेङ्कटेश्वरः।
एतद्द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः।
दारिद्र्यदुःखनिर्मुक्तो धनधान्यसमृद्धिमान्।
जनवश्यं राजवश्य सर्वकामार्थसिद्धिदम्।
दिव्यतेजः समाप्नोति दीर्घमायुश्च विन्दति।
ग्रहरोगादिनाशं च कामितार्थफलप्रदम्।
इह जन्मनि सौख्यं च विष्णुसायुज्यमाप्नुयात्।
सन्तोषी माता अष्टोत्तर शतनामावलि
ॐ श्रीदेव्यै नमः । श्रीपदाराध्यायै । शिवमङ्गलरूपिण्यै ....
Click here to know more..नव दुर्गा स्तुति
वृषारूढा सैषा हिमगिरिसुता शक्तिसरिता त्रिशूलं हस्तेऽस....
Click here to know more..रामचरित वेद पुराणों द्वारा सम्मत