परशुराम अष्टक स्तोत्र

ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं
नीलनीरजलोचनं हरिमाश्रितामरभूरुहम्।
केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै।
अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं
वेदरूपमनामयं विभुमच्युतं परमेश्वरम्।
हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै।
रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं
विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम्।
छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै।
बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं
सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम्।
भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै।
जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं
निर्विकारमगोचरं नरसिंहरूपमनर्दहम्।
वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै।
निर्जरं गरुडध्वजं धरणीश्वरं परमोददं
सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम्।
भूमतापसवेषधारिणमद्रिशञ्च महामहं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै।
सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ।
वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै।
दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-
वैरिसूदनपण्डितं गिरिजातपूजितरूपकम्।
बाहुलेयकुगर्वहारकमाश्रितावलितारकं
पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै।
पर्शुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः।
पर्शुरामकृपासारं सत्यं प्राप्नोति सत्वरम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies