करुणाकर महाविष्णु स्तोत्र

क्षान्तानि तानि निखिलानि महान्ति नूनमागांसि मे प्रणतपालनतत्परेण
यत्तेन नाथ भवतो विमुखत्वरूपमागोऽपि हन्त विकलस्य मम क्षमस्व।
यन्नाथ हन्त सततं विपदाकुलेन त्वत्पादयोः प्रणमनं न मया व्यधायि।
विस्मृत्य सम्प्रति चिराय ममैतदागस्तां सन्निधेहि करुणां मयि दीनबन्धो।
निर्व्या जमार्त्तपरिपालनदीक्षितत्वं पाप्मान्तकृत्त्वमचिराच्च समन्निकामम्।
कार्या तथाऽपि विनते नतिमात्रतःस्त्राक् सन्तुष्यता मयि दयैव विभो
त्वयाऽद्य।
सर्वेषु पातकपरेषु परं प्रसिद्धं मां त्रास्यसे यदि शरण्य तदैव नाथ।
पापीयसामपि सकृच्छरणं गतानामुद्धारदीक्षिततया प्रथितोऽसि भावी।
के नाम पातककृतो भवताऽद्य यावन् नैवोद्धृता यदि गताः शरणं कदाचित्।
किन्त्वेषु हन्त महितस्य दयानिधे मे सन्तारणावसर एष यशोऽभिलाषिन्।
विश्वम्भरस्य करुणावरुणालयस्य सर्वेश्वरस्य महितस्य यशस्विनां ते।
आर्त्तेष्वनन्यशरणेषु न नाथ सम्प्रत्येवंविधत्वमुचितं बत मादृशेषु।
त्वत्सम्मुखे विलपतामपि मादृशानामार्त्ति निहत्य न यतः शिवमादधासि।
हा दीनबन्धुरपि सन् भगवन् विभो तदन्धोऽसि हन्त बधिरोऽसि जडोऽसि
किं वा।
हा नाथ दीनजनतैकशरण्य हन्त किं नाम मां म्वशरणं परिपासि नाद्य।
को वाऽखिलेषुभुवनेषु मदन्य आर्त्तो यं नन्दयन् वितरितासि निजाममिख्याम्।
कर्मानुसारिफलदानविधौ समर्थैरन्यैर्दयालुभिरपि त्रिदशैर्हतानाम्।
नाथ त्वमेव शरणं तनु मादृशानां सर्वेश्वरश्च करुणश्च न
यत् परोस्ति।
किं नाम मां न परिपासि दयाविधान किं हन्त वा त्वमपि कर्ममुखप्रतीक्षः।
चेदेवमेव बत तर्हि चिराय लोके निर्व्याजपालनपरत्वमपाकृतं स्याद।
नानाविधानि वृजिनानि मया महान्ति कामं कृतानि यदपि त्रिदशाधिनाथ।
श्रीमन्नथापि शरणागतवत्सलत्वसम्भावनाय परिपाहि समाश्रितं माम्।
मामन्तरेण भुवनेष्वखिलेषु कश्चिन् नैतस्य हन्त पतितस्य समाश्रयोऽन्यः।
इत्येव नाथ परिपाहि दयानिधान कर्माणि विस्मर चिराय कृतागसोऽपि।
आर्त्तो न कुत्रचन कश्चन ते मदन्यस्तादृग्जनार्त्तिहरणे च परः परस्त्वत्।
सम्प्रत्यथापि भगवन् किमु मां न पासि किं वा न पश्यसि चिराय
यशोमहत्त्वम्।
त्वामाश्रितोऽहमिति नाथ! परं निशम्य पापीयसोऽपि बत नः परिपासि सद्यः।
तस्मात्त्वमेव भुवनेष्वखिलेषु विष्वङ् मुख्यो मतोऽसि
शरणागतवत्सलानाम्।
त्वामाश्रितोऽस्मि परिपालय दीनबन्धो इत्येव दुष्कृतवतामपि मादृशानाम्।
आकर्ण्य जातु परिदेवनमीश सद्यो रक्षस्त्वमेव महितः करुणाकरेषु।
अग्रे सरा यदपि दारुणदुष्कृतानि सन्तन्वतां ध्रुवमयी तदपि प्रपन्नाः।
इत्येव मादृशजनान् परिपासि यत्त्वं विष्वक् तदेव भगवन् प्रथितः
शरण्यः।
त्राणोचितानि सुकृतानि किमस्य कामं दड्यानि किन्तु दुरितान्यथवेति नाथ।
चेच्चिन्तयेः पतितपावन मादृशानामभ्यर्थना तव च वत्सलता मृषैव।
यद्यप्यतीव पतितोऽस्मि दयानिधान सम्प्रत्यथापि भवतः शरणं प्रपन्नः।
तस्माच्छरण्य भवता परिरक्षणीयो जानेऽन्यथा मम कदाऽपि न रक्षणं
स्यात्।
कुत्रापि हन्त पतितोनमतो मदन्यः सत्यं तथाऽपि भवतः शरणं प्रपन्नः।
एवं स्थितो मम निराकरणं चिराय संरक्षणं सपदि वा बत नाथ युक्तम्।
भुक्तानि पातकफलानि चिराद् बहूनि नेतः चरं किमपि भोक्तुमहं समर्थः।
त्वं दीनबन्धुरिति नाथ जगत्सु विष्वक् ख्यातोऽसि यत् पतितपावन पाहि तस्मात्।
मृत्योः करालवदने पतितोऽहमद्य यावत् प्रकामममरेश विधेरधीनः।
अप्येत्य हन्त भवतोऽभिमुखं कथञ्चिद् यद्यद्य शर्म्म न लभेय ततो यशः किम्।
अन्याश्रितो यदि विभो यदि वा निरागाः स्यान्निर्भयो जगति हन्त! भवादृशानाम् ।
किं तेन किञ्चिदुदितं करुणानिधित्वं किंवा महत्सु महिमा महितोंऽशतोऽपि।
कुर्वन्ननाथपतितोद्धरणं समन्ताल्लोके महत्त्वमुपयाति दयानिधीनाम्।
मामुद्धरिष्यसि न तद् यदि नाथ सद्यः किं हन्त‌ तर्हि महिमा विमलस्त्वदीयः।
यन्मादृशानपि सुदुष्कृतिनोऽतिदीनान् मत्वा समुद्धरसि मङ्क्षु समन्ततस्त्वम्।
तद् दीनबन्धुरिति नाम तव त्रिलोक्यां स्थाने शरण्य भगवन् नितरां प्रसिद्धम्।
विश्वम्भरोऽसि यदि मामपि तद्विभर्षि साहाय्यमाचरसि मे यदि दीनबन्धुः।
यत् पावनस्तदिति नाथ पुनासि नेदं चित्रं स्वनाममहिमानमुशन्ति सर्वे।
यद्यागमिष्यमघहन् शरणं तवाहं त्वं नाथ यद्यदहरिप्य इमम् शरण्य।
उद्धृत्य सम्प्रति यशो लभसे स्म यादृक् किं तादृशं कथय नाथ ततोऽन्यथाऽपि।
सत्यं यदि त्वमसि माधव दीनबन्धुः किं मां कदर्थयसि हन्त पुनः पुनस्त्वम्।
एवं विलापिनि जने कृपणोऽपि सद्यः सम्पद्य साधु मृदुतां करुणां तनोति।
यावत् समं करुणया पररक्षकत्वं साधारणोऽपि भजते यदि कीर्त्तिलिप्सुः।
विश्वम्भरत्वमहितः पुनरेतमेवं व्यापादयस्यहह तत्त्वमिव त्वमेव।
सर्वेऽप्यमी तव वशे जगदीशितारः पुंसां शुभाशुभविधौ प्रभवो भवन्ति।
तस्मात्त्वमेव बत तत्तदपाकृतस्य मादृग्जनस्य शरणैषिण आश्रयोऽसि।
पाया यदि त्वमपि नाथ न पीड्यमानं तैस्तैः परस्य चरितेकदृशां प्रसिद्धैः।
लोकः शरण्य शरणं बत कस्य यायात् को वा भवेत् पतितपावन दीनबन्धुः।
व्याधादयोऽपि भगवन् विहितापराधाः सन्तारिताः सपदि हन्त यदा दयालो।
एकाकिनं पुनरिमं परिपीडयंस्त्वं तत्तां निजां किमु निराकुरुषे चिरं न।
दीनोऽस्मि दीनदयितोऽसि सुदुःखितोऽस्मिदुखान्तकस्त्वमसि नाथ सुदुःखितानाम्।
पाप्मास्मि पावनकृतां प्रथमोऽसि नित्यं तन्मां प्रभो झटिति पालय पावयाद्य।
कर्म्मानुसारमशुभं च शुभं च भोग्यं सर्वस्य दैवनियतं जगतो न चित्रम्।
भूयोऽपि भोः पतितपावन नाम यत्ते तन्मां पुनीहि च कृतार्थय तामभिख्याम्।
सर्वार्थपूर्त्तिकरणे बहवः प्रसिद्धाः कल्पाद्रुमप्रभूतयः शरणागतानाम्।
हे नाथ यद्यथ बिभर्षि पराङ्मुखांस्त्वमेतादृशांस्तदासि सत्यमतुग्रहीता।
नाथ त्वमेव यदि सर्वजगन्मयस्तन्मां पीडयन् किमु न पीडयसि स्वमद्य।
चेत्त्वं पुनर्बत जगद्गत एव कश्चित्किं तर्हि भोस्तदपि कर्मभुजः शुभेच्छा।
विश्वं समुद्धरसि सर्वमपि त्वमीश तन्मां समुद्धरसि किं न दयानिधान।
विश्वम्भर त्वमपि कर्ममुखप्रतीक्षस्तत् किं प्रभुत्वमनुकम्पविधौ त्वदीयम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other languages: Tamil

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |