हरि दशावतार स्तोत्र

प्रलयोदन्वदुदीर्णजल- विहारानिविशाङ्गम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
चरमाङ्गोर्द्धतमन्दरतटिनं कूर्मशरीरम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
सितदंष्ट्रोद्धृत- काश्यपतनयं सूकररूपम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
निशितप्राग्रनखेन जितसुरारिं नरसिंहम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
त्रिपदव्याप्तचतुर्दशभुवनं वामनरूपम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
क्षपितक्षत्रियवंशनगधरं भार्गवरामम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
दयिताचोरनिबर्हणनिपुणं राघवरामम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
मुरलीनिस्वनमोहितवनितं यादवकृष्णम्।
कमलाकान्तमण्डित-‌विभवाब्धिं हरिमीडे।
पटुचाटिकृतनिस्फुटजननं श्रीघनसंज्ञम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
परिनिर्मूलितदुष्टजनकुलं विष्णुयशोजम्।
कमलाकान्तमण्डित- विभवाब्धिं हरिमीडे।
अकृतेमां विजयध्वजवरतीर्थो हरिगाथाम्।
अयते प्रीतिमलं सपदि यया श्रीरमणोयम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |