Atharva Veda Vijaya Prapti Homa - 11 November

Pray for Success by Participating in this Homa.

Click here to participate

गणपति मंत्र अक्षरावलि स्तोत्र

ऋषिरुवाच -
विना तपो विना ध्यानं विना होमं विना जपम् ।
अनायासेन विघ्नेशप्रीणनं वद मे प्रभो ॥

ईश्वर उवाच -
मन्त्राक्षरावलिस्तोत्रं सर्वसौभाग्यवर्धनम् ।
दुर्लभं दुष्टमनसां सुलभं शुद्धचेतसाम् ॥

महागणपतिप्रीतिप्रतिपादकमञ्जसा ।
कथयामि घनश्रोणि कर्णाभ्यामवतंसय ॥

ओङ्कारवलयाकारमुञ्चत्कल्लोलमालिनम् ।
ऐक्षवं चेतसा वीक्षे सिन्धुसन्धुक्षितस्वनम् ॥

श्रीमतश्चास्य जलधेरन्तरभ्युदितं नुमः ।
मणिद्वीपं मदाकल्पमहाकल्पं महोदयम् ॥

ह्रीतिमादधता धाम्ना धाम्नामीशकिशोरके ।
कल्पोद्यानस्थितं वन्दे भास्वन्तं मणिमण्डपम् ॥

क्लीबस्यापि स्मरोन्मादकारिश‍ृङ्गारशालिनः ।
तन्मध्ये गणनाथस्य मणिसिंहासनं भजे ॥

ग्लौं कलाभिरिवाञ्छामिस्तीव्रादिनवशक्तिभिः ।
सुष्टं लिपिमयं पद्मं धर्माद्याश्रयमाश्रये ॥

गम्भीरमिव तत्राब्धिं वसन्तं त्र्यस्रमण्डले ।
उत्सङ्गतललक्ष्मीकमुद्यतिग्मांशुपाटलम् ॥

गदेक्षुकामुकरुजा चक्राम्बुजगुणोत्पले ।
व्रीह्मग्रनिजदन्ताग्रं भूषितं मातुलिङ्गकैः ॥

णषष्ठवर्णवाच्यस्य दारिद्र्यस्य विभञ्जनैः ।
एतैरेकादशकरानलं कुर्वाणमुन्मदम् ॥

परानन्दमयं भक्तप्रत्यूहव्यूहनाशनम् ।
परमार्थप्रबोधाब्धिं पश्यामि गणनायकम् ॥

तत्पुरः प्रस्फुरद्बिल्वमूलपीठसमाश्रयौ ।
रमारमेशौ विमृशाम्येवशुभदायकौ ॥

येन दक्षिणभागस्थन्यग्रोधतलमास्थितम् ।
सकलं सायुधं वन्दे तं साम्बं परमेश्वरम् ॥

वरसम्भोगरसिकौ पश्चिमे पिप्पलाश्रयौ ।
रमणीयतरौ वन्दे रतिपुष्पशिलीमुखौ ।

रममाणौ गणेशानोत्तरदिक्फलिनीतले ।
भूभूधराम्बुदाराभौ भजे भुवनपालकौ ॥

वनमालावपुर्ज्योतिकडारितककुप्तटाः ।
हृदयादिरङ्गदेवि रङ्गरक्षाकृते नमः ॥

रदकाण्डरुचिज्योत्स्नाकाशगण्डस्रवन्मदम् ।
ऋध्याश्लेषकृतामोदमामोदं देवमाश्रये ॥

दलत्कपोलविगलं मदधाराबलाहकम् ।
समृद्धितङिदाश्लिष्टं प्रमोदं हृदि भावये ॥

सकान्तिकान्तितिलकापरिरब्धतनुं भजे ।
भुजप्रकाण्डसच्छायं सुमुखं कल्पपादपम् ॥

वन्दे तुन्दिलमिन्धानं चन्द्रकन्दलशीतलम् ।
दुर्मुखं मदनावत्या निर्मितालिङ्गिनं पुरा ॥

जम्भवैरिकृताभ्यर्च्यौ जगदभ्युदयप्रभौ ।
अहं मदद्रवाविघ्नौ हतये एनसां श्रये ॥

नमः श‍ृङ्गाररुचिरौ नमत्सर्वसुरासुरौ ।
द्राविणीविघ्नकर्तारौ द्रावयेतां दरिद्रताम् ॥

मेदुरं मौक्तिकासारं वर्षन्तौ भक्तिशालिनाम् ।
वसुधाराशङ्खनिधिवाक्यपुष्पाञ्जलिना स्तुमः ॥

वर्षन्तौ रत्नवर्षेण बलद्वालातपस्विपौ ।
वरदानुमतौ वन्दे वसुधापद्मशेवधी ॥

शमताधिमहाव्याधिसान्द्रानन्दकरम्बिताः ।
ब्राह्मम्यादीः कलये शक्तीः शक्तीनामभिवृद्धये ॥

मामवन्तु महेन्द्राद्याः दिक्पालाः दर्पशालिनः ।
तं नुमः श्रीगणाधीशं सवाहायुधशक्तिकम् ॥

नवीनपल्लच्छायादायादवपुरुज्वलम्
मदस्य कटनिष्यन्दस्रोत स्वित्कटकोदरम् ॥

यजमानतनुं यागरूपिणं यज्ञपुरुषम् ।
यमं यमवतामर्च्य यत्नभाजामदुर्लभम् ॥

स्वारस्यं परमानन्दस्वरूपं स्वयमुद्गतम् ।
स्वयं हव्यं स्वयं वैधं स्वयं कृत्यं त्रयीकरम् ॥

हारकेयूरमुकुटकिङ्किणीगदकुण्डलैः ।
अलङ्कृतं च विघ्नानां हर्तारं देवमाश्रये ॥

मन्त्राक्षरावलिस्तोत्रं कथितं तव सुन्दरि ।
समस्तमीप्सितं तेन सम्पादय शिवे शिवम् ॥

Ramaswamy Sastry and Vighnesh Ghanapaathi

74.8K
11.2K

Comments Hindi

Security Code
90081
finger point down
वेदधारा का कार्य अत्यंत प्रशंसनीय है 🙏 -आकृति जैन

वेदधारा के धर्मार्थ कार्यों में समर्थन देने पर बहुत गर्व है 🙏🙏🙏 -रघुवीर यादव

जय माधव आपकी वेबसाइट शानंदार है सभी लोगो को इससे लाभ होगा। जय श्री माधव -Gyan Prakash Awasthi

इस परोपकारी कार्य में वेदधारा का समर्थन करते हुए खुशी हो रही है -Ramandeep

Om namo Bhagwate Vasudevay Om -Alka Singh

Read more comments

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Whatsapp Group Icon