महोदर स्तुति

समागत्य स दैत्येन्द्रो ननाम स महोदरम् ।
भक्तिभावसमायुक्तः पूजयामास यत्नतः ॥

पूजयित्वा यथान्यायं पुनस्तं प्रणनाम सः ।
कृत्वा करपुटं मोहस्तुष्टाव च महोदरम् ॥

मोहासुर उवाच -
नमस्ते ब्रह्मरूपाय महोदर सुरूपिणे ।
सर्वेषां भोगभोक्त्रे वै देहदेहिमयाय च ॥

मूषकारूढदेवाय त्रिनेत्राय नमो नमः ।
चतुर्भुजाय देवानां पतये ते नमो नमः ॥

अनादये च सर्वेषामादिरूपाय ते नमः ।
विनायकाय हेरम्ब दीनपालाय वै नमः ॥

गणेशाय निजानन्दपतये ब्रह्मनायक! ।
सिद्धिबुद्धिप्रदात्रे वै ब्रह्मभूताय वै नमः ॥

ब्रह्मभ्यो ब्रह्मदात्रे वै योगशान्तिमयाय च ।
योगिनां पतये तुभ्यं योगिभ्यो योगदायक ॥

सिद्धिबुद्धिपते नाथ एकदन्ताय ते नमः ।
शूर्पकर्णाय शूराय वीराय च नमो नमः ॥

सर्वेषां मोहकर्त्रे वै भक्तेभ्यः सुखदायिने ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥

मायाविने च मायाया आधाराय नमो नमः ।
मायिभ्यो मायया चैव भ्रान्तिदाय नमो नमः ॥

किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सहाङ्गकाः ।
शान्तिं प्राप्तास्तथाऽपि त्वं संस्तुतोऽसि दयापरः ॥

धन्यौ मे पितरौ ज्ञानं तपः स्वाध्याय एव च ।
धन्यं वपुश्च देवेश येन दृष्टं पदाम्बुजम् ॥

महोदर उवाच -
मदीयं सोत्रमेतद्वै सर्वदं यत्त्वया कृतम् ।
भविष्यति जनायैव पठते श‍ृण्वतेऽसुर ॥

मोहनाशकरं चैव भुक्तिमुक्तिप्रदं भवेत् ।
धनधान्यादिदं सर्वं पुत्रपौत्रसुखप्रदम् ॥

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara test | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies